________________
प्रकरणम् ६७ ]
बालमनोरमा-तत्वबोधिनीसहिता
[ १७६
इन्द्रः । तक्षा । राजा । धन्वा मरुः । धन्त्र शरासनम् । धुवा सूर्यः । प्रतिदीष्यन्त्यस्मिन्प्रतिदिवा दिवसः । १५५ सप्यशुभ्यां तुट् च । सप्त । श्रष्ट । १५६ नञि जहातेः । अहः । १५७ श्वन्नुक्षन्पूषन् ली हन्क्ले दन्ने हम्मूर्धन्मज्जन्नर्यमन्विश्वप्सन्परिज्मन्मातरिश्वन्मघवन्निति । एते त्रयोदश कनिप्रत्ययान्ता निपात्यन्ते । श्वयतीति श्वा । उता । पूषा । प्लिह गतौ । इकारस्य
,
धन्वि गतौ यु अभिगमन, दिवु क्रीडादौ एषां समाहारद्वन्द्वात् पञ्चमी । एभ्यः कनिन्प्रत्ययः । युवेति । 'बालस्तु स्यान्माणवको वयःस्थस्तरुणो युवा' इत्यमरः । 'युवा स्यात्तरुणेश्रेष्ठे निसर्गबलशालिनि' इति मेदिनी । वृषेति । वृषधातोः कनिन्प्रत्ययः । 'चित्रोपचित्रा न्यग्रोधी द्रवन्ती शम्बरी वृषा' इत्यमरः । तक्षेति । तत्क्षू तनूकरणे तत्यस्मात् कनिन्प्रत्ययः । 'तक्षा तु वर्धकिस्त्वष्टा रथकारस्तु काष्ठतट्' इत्यमरः । राजेति । 'राजा प्रभौ नृपे चन्द्रे यते क्षत्रियशकयोः' इत्यमरः । धन्वेति । 'समानौ मरुधन्वानौ' इत्यमरः । सत्यशुभ्यां तुट् च । षप समवाये, शू व्याप्तौ श्रभ्यां कनिन्प्रत्ययः तुडागमश्च । सप्त श्रष्टेति रूपम् । नञि जहातेः । न उपपदे श्री हाक् त्यागे इत्यस्मात् कनिन्प्रत्ययः । कनिन्यातो लोपः । श्वन्नुतन्पूषन्प्लीहन् । टुं श्रश्वि गतिवृद्धयोः, उक्ष सेचने, पूष वृद्धौ, प्लिह गतौ, क्लिदू भावे, ष्णिह प्रीतौ, मुह वैचित्त्ये, टु मस्जो शुद्धौ, माङ् माने श्रर्यपूर्वः, प्सा भक्षणे विश्वपूर्वः, जनी प्रादुर्भावे परिपूर्वः, टु श्रश्वि गतिवृद्धयोः,
कृगृ । कॄ विक्षेपे, गृ निगरणे, शृ हिंसायाम्, दृ विदारणे । गर्वोऽहंकारः । शर्वो रुद्रः । कनिन्यु । यु मिश्रणे, वृषु सेचने, तक्षू त्वक्षू तनूकरणे, रासृ दीप्तौ, धन्वि गत्यर्थः, अभिगमने, दिव क्रीडादौ । 'युवा स्यात्तरुणे श्रेष्ठे निसर्गबलशालिनि' इति । ‘वृषा कर्णे महेन्द्रे ना' इति च मेदिनी । 'तक्षा तु वर्धकिस्त्वष्टा रथकारश्च काष्ठतद्' इत्यमरः । ‘राजा प्रभौ नृपे चन्द्रे यज्ञे क्षत्रियशकयोः' इति च । 'समानौ मरुधन्वानौ' इति च 'अथास्त्रियाम् । धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम्' इति चामरः । 'धन्वा तु मरुदेशे ना क्लीबे चापे स्थलेऽपि च' इति मेदिनी । सशूभ्याम् । षप समवाये, अशु व्याप्तौ । नञि । श्रोह्राक् त्यागे, कनिनि श्रतो लोपः । श्वन्नुक्षन् -1 प्रश्वि गतिवृद्ध्योः, उत सेचने, पूष वृद्धौ, ष्णिह प्रीतौ, मुह वैचित्ये, मुख बन्धने । उकारस्य दीर्घत्वे वकारस्य धकार इत्युज्ज्वलदत्तः । टुमस्जो शुद्धौ । मस्जे सकारस्य शकारस्तस्य जश्त्वेन जः । माङ् माने शब्दे च, प्सा भक्षणे, जनी प्रादुर्भावे, टुश्चि गतिवृद्ध्योः । कनिप्रत्ययान्ता इति । नायं निदिति भावः । केचित्तु नित्वं स्वीकृत्य उक्षन्नादीनां सूत्रेऽन्तोदात्तनिपातनमाहुस्तच्च गौरवप्रस्तमित्यु
1