________________
१७८]
सिद्धान्तकौमुदी। [ उणादि. किम्-सर्ता सारकः । बाहुलकाद्धसतेः । हस्वः । १५२ शेवयह्वजिह्वाग्रीवाप्वामीवाः । शेव इत्यन्तोदात्तार्थम् । यान्त्यनेन यह्वः । हस्वोहुगागमश्च । लिहन्त्यनया जिह्वा । लकारस्य जः गुणाभावश्च । गिरन्त्यनया ग्रीवा । ईडागमश्च । प्रामोतीत्याचा वायुः। मीवा उदरकृमिः । वायुरिस्यन्ये । १५३ कृगृशदभ्यो वः । कर्वः कामः प्राखुश्च । गर्वः । शर्वः । दर्वो राक्षसः । १५४ कनिन्युवृषितक्षिराजिघन्धिथुप्रतिदिवः । यौतीति युवा । वृषा शेवयह्वजिह्वा । एते वन्प्रत्ययान्ता निपात्यन्त इत्यर्थः । ननु इराशीभ्यामिति सूत्रेणैव शेव इति रूपे सिद्धे किमर्थमिदमित्यत आह अन्तोदात्तार्थमिति । शीङ् खप्ने इत्यस्माद् वन्प्रत्यये रूपम् । या प्रापणे इत्यस्माद् बन्प्रत्यये तत्संनियोगेन प्रकृतेर्तुगागमे ह्रखे च यह इति रूपम् । यद्वा, यजधातोर्वन्प्रत्यये जकारस्य हकारश्च निपात्यते । जिह्वेति शब्दं साधयति लिहन्त्यनयेति । लिट् प्रास्वादने इत्यस्माद् वन्प्रत्यये लकारस्य जकारो गुणाभावश्च निपात्यत इत्यर्थः । यद्वा, जि जये इत्यस्माद् वन्प्रत्ययो हुगागमश्च निपात्यत इति व्याख्येयम् । गिरन्त्यनयेति । गृ निगरणे इत्यस्माद् वन्प्रत्यये ईडागमो निपात्यत इत्यर्थः । यणादेश इति भावः । प्राप्त व्याप्ती इत्यस्मात्प्रत्यये प्राप्वेति रूपम् । मीवेति । मीञ् हिंसायामित्यस्माद् रूपम् । कृ गृ शृ दृभ्यो वः । कृ विक्षेपे, गृ निगरणे, शृ हिंसायाम् , दृ विदारणे, एषां द्वन्द्वात्पञ्चमी । कर्व इति। कृधातो रूपम् । गर्व इति । 'गर्वोऽभिमानोऽहङ्कारः' इत्यमरः । शर्व इति। 'ईश्वरः शर्व ईशानः' इत्यमरः । दर्व इति । दृधातो रूपम् । कनिन् युवृषि । यु मिश्रणे, वृषु सेचने, तनू तनूकरणे, राज दीप्तौ, कान्तौ, शीङ् खप्ने, पट गतौ, हृञ् स्पर्धायां शब्दे च, ओहाक् त्यागे इति वा, ईष गत्यादिषु । तन्त्रशब्दोऽत्र कर्तृवाचीत्याह अकर्तरीति। निपात्यन्त इति । वन्. प्रत्ययान्ततयेति शेषः । ह्रख इति । ह्रस शब्दे । 'ह्रखो न्यखवयोस्त्रिषु' इति मेदिनी । शेवयह्व-। एते वन्प्रत्ययान्ता निपात्यन्ते। अन्तोदात्तार्थमिति । 'इणशीभ्या' मित्यनेन आधुदात्तत्वात्सिद्धेरिति भावः । शीङ् खप्ने । शवा लिङ्गाकृतिः दशपादीवृत्तिरित्याह । यान्त्यनेनेति । उज्ज्वलदत्तस्तु यज देवपूजादौ जकारस्य हकारो यह्वो यजमान इत्याह । वैदिकनिघण्टौ महन्नामसु यह्वशब्दः पठितः । 'प्रबो यह पुरूणां'। यह महान्तमिति वदभाष्यम् । लिह आस्वादने। लिहन्त्यनयेति जिह्वा । जि जये हुगागमः । जिह्वा रसनेत्युज्ज्वलदत्तः। ग्रीवेति । गृ निगरणे, श्राप्लु व्याप्ती, मीङ हिंसायाम् । मीवेति। वेदे तु अमीवेति छित्त्वा अम रोग इत्यस्माद्वः, इट् चेत्युक्तम् । 'अमीवहा वास्तोष्पते' इत्यादिमन्त्रास्तत्रानुकूलाः ।