SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६७] बालमनोरमा-तत्त्वबोधिनीसहिता। [१७७ पापम् । बाहुल कादित्वे किएवमपि । खट्वा । विश्वम् । १५० इराशीभ्यां वन् । एवो गन्ता । 'ये च एवा मरुतः' । असत्त्वे निपातोऽयम् । शेवं लान्छनं पुंसाम् । 'शेवं मित्राय वरुणाय' । १५१ सर्वनिघृष्वरिष्वलवशिवपद्वप्रह्वेष्वा अतन्त्रे । अर्तर्येते निपात्यन्ते । सृतमनेन विश्वमिति सर्वम् । निपूर्वाद् घृशे. गुणाभावोऽपि । निघृष्यते अनेन निघृष्वः खुरः । रिवो हिंस्त्रः । लयो नर्तकः। लिव इत्यन्ये । तत्रोपधाया इत्वमपि । शेतेऽस्मिन् सर्वमिति शिवः शम्भुः। शीको हस्वस्वम् । पद्वो रथो भूलोकश्च । प्रहूयते इति प्रह्वः । द्वेष प्राकारवकार. लोपः । जहातेरालोपो वा । ईषेर्वन् । ईष्वः प्राचार्यः । इष्वः इत्यन्ये । प्रतन्त्रे 'झल्लरी चर्चरी पारी होरा लट्वा च सिध्मला' इयमरः । 'लट्वा करञ्जभेदे स्यात् फले वाद्ये खगान्तरे' इति विश्वः । करावमिति । 'करवं पापे मुनौ पुंसि' इति मेदिनी । खति । 'शयनं मच्चपर्यङ्कपल्यङ्काः खट्वया समाः' इत्यमरः। विश्वमिति । 'आदित्या विश्ववसवः' इत्यमरः । 'विश्वा ह्यतिविषायां स्त्री जगति स्यानपुंसकम्' इति मेदिनी । इराशीभ्यां वन् । इण गतौ, शोङ् स्वप्ने, आभ्यां वन्प्रत्ययः स्यात् । एव इति । शेव इति । शोधातो रूपम् । सर्वनिघृष्वरिष्व । सृ गतौ, घृषु संघर्षे, रिष हिंसायाम् , लष हिंसायान, शीङ् स्वप्ने, पद गती, हृञ् स्पर्धाय शब्दे च, ईष गत्यादिषु। अत्र तन्त्रशब्दः कर्तृवाचकः । अतन्त्रेऽकर्तरीत्यर्थः । निपात्यन्त इति । वन्प्रत्ययान्ततयेति शेषः । वन्प्रत्यये गुणे च सर्वमिति रूपम् । निघृष्व इति । निपूर्वाद् घृषधातोर्वन्प्रत्यये गुणाभावोऽपि निपायत इत्यर्थः । रिष्वो हिंस्र इति । अत्रापि गुणाभावो निपातनाद् लिष्व इत्यत्र व्युत्पत्तिमाह । उपधाया इत्त्वमिति । शिव इति । 'शंभुः शर्वः शिवः स्थाणुः' इत्यमरः । प्रब इत्यत्र वन्प्रत्यये रूपमाह ह्वेज इति । वनो वकारस्य लोपः, धातोराकारस्य लोपश्च निपात्यत इत्यर्थः । धात्वन्तरं प्रकृतिं दर्शयति जहातेरिति । ओ हाक् त्यागे इत्यस्मादित्यर्थः । वन्प्रत्यये आकारस्य लोपो निपात्यत इत्यर्थः । कण निमीलने, खटि कक्षायाम् , विश प्रवेशने, 'अश्वः पुंजातिभेदे च तुरंगे च पुमानयम्' इति मेदिनी। 'अश्वः पुंभेदवाजिनोः' इति विश्वः । 'लदा करञ्जभेद स्यात्फले वाद्ये खगान्तरे' इति विश्वमेदिन्यो। 'कएवं पापे मुनौ पुंसि' इति मेदिनी । 'किरवं बीजाघसीधुषु' इति च पठ्यते । शयनार्थिभिः काञ्जयते इति खट्वा । 'विश्वा यतिविषायां स्त्री जगति स्यानपुंसकम् । न ना शुण्ठ्या पुंसि देवप्रभेदेष्वखिले त्रिषु' इति मेदिनी । इण् । इण् गतौ । शील् स्वप्ने । शेवं सुखंमिति वेदभाष्यम् । शेवं मेट्टमित्युज्ज्वलदत्तः । सर्वनिघृष्व-। स गती, घृषु संघर्षे, रिष हिंसायाम् , लष
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy