________________
प्रकरणम् ६७] बालमनोरमा-तत्त्वबोधिनीसहिता। [१७५ ऊमं नगरम् । स्यूमो रश्मिः । सिमः सर्वः । 'शुष्ममग्निसमीरयो' । १४२ इषियुधीन्धिदसिश्याधूसूभ्यो मक् । 'इष्मः कामवसन्तयोः' । ईपीति पाठे दीर्धादिः। युध्मः शरो योद्धा च । इध्मः समित् । दस्मो यजमानः। श्यामः । धूमः । सूमोऽन्तरिक्षम्। बाहुलकादीमं वणः। १४३ युजिरुचितिजा पिवु तन्तुसन्तान, षिञ् बन्धने, शुष शोषणे, एभ्यो मन् स्यात्स च कित् । ऊठादिकं पूर्ववत् । ऊममिति । अबधातोर्मन्प्रत्यये ज्वरत्वरेत्यूठि सवर्णदीधै रूपम् । स्यूम इति । षिवुधातोर्मन्प्रत्यये च्छ्वोरिति वस्य ऊठि, यणि रूपं बोध्यम् । सिम इति । विधातो रूपम् । सर्वादिगणे पठितोऽयम् । इषियुधीन्धि । इष गतिहिंसादानेषु, युध संप्रहारे, नि इन्धी दीप्तौ, दसु उपक्षये, श्यैङ् गती, धूञ् कम्पने, ञ् प्राणिगर्भविमोचने, एषां द्वन्द्वात्पञ्चमी। युध्म इति । 'युध्मो धनुषि संयोगे' इति मेदिनी। दस्म इति । 'दस्मस्तु यजमाने स्यादपि चौरे हुताशने' इति मेदिनी । श्याम इति । 'त्रिषु श्यामो हरिकृष्णौ श्यामा स्याच्छारिका निशा' इत्यमरः । युजिरुचितिजाम् । युजिर् योगे, रुच दीप्तौ, तिज निशाने, एषां द्वन्द्वारषष्ठी। एभ्यो अवतेः। अव रक्षणादौ । 'ओं प्रश्ने स्वीकृतौ रोषे' इति विश्वः । ग्रसेरा च। प्रसु अदने । अतो मन्धातोराकारश्च । 'ग्रामः स्वरे संवसथे वृन्दे शब्दादिपूर्वके' इति विश्वः । शब्दादिपूर्वको ग्रामशब्दो वृन्दे शब्दप्रामो गुणग्राम इति यथा । 'शब्दादिपूर्वो वृन्देऽपि प्रामः' इत्यमरः । संपूर्वोऽयं युद्धे । तदुक्तं 'संपूर्वः संयुगे स्मृतः' इति । अविसिवि । अव रक्षणादौ, षिवु तन्तुसन्ताने, षिञ् बन्धने, शुष शोषणे, एभ्यो मन्स्यात्स च कित् । ऊठादिकं पूर्ववत् । ऊमं नगरमिति 'स्वे ऋतुम्' इति मन्त्रे ऊमास्तर्पका यजमाना इति वेदभाष्यम् । टापि बाहुलकाद्धस्वत्वे 'उमातसीहैमवतीहरिद्राकान्तिकीर्तिषु' इति मेदिनी । स्यूमो रश्मिरिति सूत्रम् । तन्तुरित्यन्ये । सिमः सर्वनामगणे पठितः । 'शुष्मं तेजसि सूर्ये ना इति मेदिनी । शुष्मं बलमिति वदेभाष्यम् । इषियुधि । इष गतिहिंसादानेषु ईष गताविति केचिद् । इष्मः । युध संप्रहारे, जिइन्धी . दीप्ती, दसु उपक्षये, श्यैङ् गतौ, धूञ् कम्पने, धुञ् प्राणिगर्भविमोचने । युध्म इति । 'युध्मो धनुषि संयुग' इति मेदिनी। 'दस्मस्तु यजमाने स्यादपि चौरे हुताशने' इति च । 'त्रिषु श्यामौ हरित्कृष्णौ श्यामा स्याच्छारिका निशा' इत्यमरः । 'श्यामो वटे प्रयागस्य वारिदे वृद्धदारके। पिके च कृष्णहरितोः पुंसि स्यात्तद्वति त्रिषु। मरीचे सिन्धु. लवणे क्लीबं स्त्री शारिकौषधौ । अप्रसूताङ्गनायां च प्रियङ्गावपि गुग्गुली। यमुनायां त्रियामायां कृष्णत्रिवृतिकोषधे । नीलिकायाम्' इति मेदिनी । ईर्ममिति ।