SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १७४ ] सिद्धान्तकौमुदी । [ उणादि पद्मम् । यक्ष पूजायाम्, यथमो रोगराजः । नेमः । १३८ जहातेः सन्वदालोपश्च । 'जिह्मः कुटिलमन्दयोः' । १३६ श्रवतेष्टिलोपश्च । मन्प्रत्ययस्यायं टिलोपो न प्रकृतेः । अन्यथा डिदित्येव ब्रयात् । 'ज्वरस्वर - ' ( सू २६५४ ) इति ऊठौ । तयोर्दीर्घे कृते गुणः । चादिपाठादेव्ययस्वमित्युज्ज्वलदत्तः, तच । तेषामसस्वार्थत्वात् । वस्तुतस्तु स्वरादिपाठादव्ययत्वम् । श्रवतीति श्रोम् । १४० ग्रसेरा च । ग्रामः । १४१ अविसिविसिशुषिभ्यः कित् । गीति । जहातेः सन्वदालोपश्च । ओ हाक् त्यागे, श्रस्मान्मन्प्रत्ययः, स च सन्वद्भवति । आकारलोपश्च । जिह्म इति रूपम् । अवतेष्टिलोपश्च । अव रक्षणादौ, अस्माद् मन्प्रत्ययः, मन्प्रत्ययस्य टेर्लोपश्चेत्यर्थः । ननु टिलोपश्चेत्यत्र श्रस्मिनैव सूत्रे विधेयभूतस्य मन्प्रत्ययस्योद्देश्वत्वं न स्यात्, अतः टिलोप इत्यत्र प्रकृतेरेनोद्देश्यत्वं स्यादित्यत श्राह श्रन्यथेति । प्रकृते टिलोपाङ्गीकार इत्यर्थः । डिदि - त्येवेति । टेरिति टिलोपसंभवादित्यर्थः । ज्वरत्वरेत्यूठाविति । वकारस्य उपधायाश्च स्थाने इत्यर्थः । तयोरिति । श्रकारवकारस्थानिकयोरूठोरित्यर्थः । प्रत्येकमूठ् इति पक्षाभिप्रायेणेदम् । उपधावकारयोः स्थाने एक एवोठिति मते तु न कापि विप्रतिपत्तिः । श्रस्यान्ययत्वे साधकमाह चादिपाठादिति । तन्नेति । तन्मतं खण्डयति तेषामसत्त्वार्थत्वादिति । ग्रसेरा च । प्रसु प्रदने, अस्माद् मन्प्रत्ययो धातोराकारश्चान्तादेशः । ग्राम इति रूपम् । अविसिवि । श्रव रक्षणादौ, 'यामस्तु पुंसि प्रहरे संयमेऽपि प्रकीर्तितः' इति च । 'वामं धने पुंसि हरे कामदेवे पयोधरे । वल्गु प्रतीपसव्येषु त्रिषु नार्यां स्त्रियामथ । वामी शृगाली वडवा रासभीकरभीषु च' इति । 'पद्मोऽस्त्री पद्मके व्यूहनिधिसंख्यान्तरेऽम्बुजे । ना नागे' इति च मेदिनी । यक्ष पूजायामिति । अयमन्तस्थादिः । मनिन्प्रत्यये तु नकारान्तः शब्दः । 'क्षयः शोषश्च यक्ष्मा च' इत्यमरः । 'राजयक्ष्मेव रोगाणाम्' इति माघः । ' यक्ष्मणापि परिहाणिराययौ' इति रघुः । अत्र जकारयकारयोर्भेदाप्रहेण जक्षभक्षहसनयोरित्युज्ज्वलदत्तेनोपन्यस्तम् । तन्न, तस्य चवर्गतृतीयादित्वात् । अत एव 'अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां चुबुकादधि । यक्ष्मं सर्वस्मात्' इति मन्त्रे यक्ष्मशब्दस्यान्तःस्थादित्वम् । 'जक्षत् क्रीडन् रममाणः' इत्यादिमन्त्रे तु जतच्छब्दस्य चवर्गतृतीयादित्वं वेदभाष्यकृतो व्याचख्युः । 'नेमः कोऽवधौ गर्ते प्राकारे कैतवेऽपि च' इति मेदिनी । 'नेमस्त्वर्थे प्राकारगर्तयोः श्रवधौ कैतवे च' इति हेमचन्द्रः । जहातेः । श्रोह्राक् त्यागे । जिह्न इति । मन्प्रत्ययस्य सन्वत्त्वाद् द्वित्वे 'सन्यतः' इतीत्वम् । 'जिह्मस्तु कुटिले मन्दे क्लीबं तगरपादपे' इति मेदिनी ।
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy