________________
प्रकरणम् ६७ ]
बालमनोरमा-तत्त्वबोधिनीसहिता ।
[ १७३
पारक् सुवर्णम् । प्रथेः कित्संप्रसारणं च | पृथक् । स्वरादिपाठादव्ययत्वम् । १३५ भियः षुग्घ्रस्वश्च । भिषक् । १३६ युष्यसिभ्यां मदिक् । युष सौत्रो धातुः । युष्मद् । श्रस्मद् । स्वम् । अहम् | १३७ अर्तिस्तु सुहुसृधृक्षिक्षुभायावाप - दियक्षिनीभ्यो मन् । एभ्यश्चतुर्दशभ्यो मन् । अर्मश्चक्षुरोगः । स्तोमः संघातः । सोमः । होमः । सर्मो गमनम् । धर्मः । क्षेमं कुशलम् । होमम् । प्रज्ञाद्यणि क्षौमं च । भामः श्रादित्यः । यामः । 'वामः शोभनदुष्टयो:' । दिण्यन्तः । श्रस्माद् श्रजि प्रत्ययः स्यादित्यर्थः । पारगिति । अजिप्रत्यये णेरनिटीत्यनेन णिलोपः तस्य प्रत्ययलक्षणेन उपधावृद्धिर्भवत्येव । कुत्वे रूपम् । प्रथेः कित्संप्रसारणं च । प्रथ प्रख्याने, अस्मादजिप्रत्ययः । स च किदु भवति, धातोः संप्रसारणं च, पृथक् । स्वरादिपाठादिति । पृथग् विनार्थ इति पाठादिति भावः । भियः षुग् हस्वश्च । ञि भी भये इत्यस्मादजिप्रत्ययः, प्रकृतेः षुगागमश्च भवतीत्यर्थः । भिषगिति रूपम् । युष्यसिभ्यां मदिक् । धातुपाठे युषधातोरदर्शनादाह युष् सौत्रो धातुरिति । असु देपणे दिवादिः । आभ्यां मदिक्प्रत्ययः । युष्मदिति रूपम् । अस्मदिति रूपम् | त्वम् श्रहमिति । 'त्वाहौ सौ' इति त्वाहादेशाविति भावः । अर्तिस्तु सुहु । ॠ गतौ ष्टुञ् स्तुतौ षुञ् अभिषवे, हु दानादानयोः, सृ गतौ, धृञ् धारणे, क्षि क्षये, टुं क्षु शब्दे, भा दीप्तौ, या प्रापणे, वा गतिगन्धनयोः, पद गतौ, यक्ष पूजायां चुरादिः, णीञ् प्रापणे, एषां द्वन्द्वात्पञ्चमी । एभ्यो मन्प्रत्ययो भवति । श्रर्म इति । मन्प्रत्यये गुणे च रूपम् । स्तोम इति । संघात इत्यर्थः । सोम इति । 'सोमस्तु हिनदीधितौ' । क्षौमशब्दं साधयितुमाह प्रज्ञाद्य
•
•
श्रदेर्डित्त्वाट्टिलोपः । एतेः । इय् गतौ अस्माददिस्तस्य तुटि गुणः । एतद् । सर्तेः । सृ गतौ । लङ्गेः । लघि शोषणे । पारयतेः । पार तीर कर्मसमाप्तौ चुरादिः । पारगिति । णिलोः कुत्वम् । प्रथेः । प्रथ प्रख्याने । भियः । जिभी भये । युष्यसि । अमु क्षेपणे । अर्तिस्तु । ऋ गतौ, ष्टुञ् स्तुतौ षुब् अभिषवे, हु दानादनयोः, सृ गतौ, धृञ् धारणे, क्षि क्षये, टुक्षु शब्दे, भा दीप्तौ, या प्रापणे, वा गतिगन्धनयोः, पद गतौ णीञ् प्रापणे, 'सोमस्तुहिनदीधितौ । वानरे च कुबेरे च पितृदेवे समीरणे । वसुप्रभेदे कर्पूरे नीरे सोमलतौषधौ' इति मेदिनी । होम इति । देवतोद्देशेन हविः प्रक्षेपः । धर्मोऽस्त्री पुण्य आचारे स्वभावोपमयोः ऋतौ । श्रहिंसोपनिषन्न्याये ना धनुर्यमसोमपे' इति च । 'धर्मः पुण्ये यमे न्याये स्वभावाचारयोः क्रतौ' इति विश्वः । ' क्षौमं पट्टे दुकूलेऽस्त्री क्षौमं वल्कलजांशुके । शणजे तसिजे ' इति मेदिनी । 'भामः क्रोधे रवौ दीप्तौ' इति च ।
•