SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १७२ ] सिद्धान्तकौमुदी। [उणादिसरण्डः पक्षी । भरण्डः स्वामी । वरण्डो मुखरोगः । १२७ शृदृभसोऽदिः। शरत् । 'दरदय कूलयोः' । भसज्जधनम् । १२८ दणातेः पुग्घ्रस्खश्च । दृषत् । १२६ त्यजितनियजिभ्यो डित् । स्यद् । तद् । यद् । सर्वादयः । १३० एतेस्तुद् च । एतद् । १३१ सर्तेरटिः । 'सरट् स्याद्वातमेघयोः' । वेदभाष्ये तु 'याभिः कृशानुम्' इति मन्त्रे 'सरड्भ्यो मधुमक्षिकाभ्यः' इति व्याख्यातम् । १३२ लकेनेलोपश्च । लघट वायुः । १३३ पारयतेरजिः। वृञ् वरणे, एषां समाहारद्वन्द्वात्पञ्चमी । एभ्यः अण्डन्प्रत्ययः स्यात् । करण्ड इति । प्रत्यये परतो गुणः । शृभसोऽदिः। शू हिंसायम् , दृ विदारणे, भस भर्त्सनदीप्योः, एभ्यः अदिप्रत्ययः । इकार उच्चारणार्थः । शरदिति । प्रत्यये परतो गुणः । 'शरत्स्त्री वत्सरेऽप्यतौ' । 'दरस्त्रियां प्रपाते च भयपर्वतयोरपि' 'भसत्स्त्री भास्वरे योनौ' इति मेदिनी । दृणातेः षुग् ह्रस्वश्च । दृ विदारणे इत्यस्माद् अदिप्रत्ययः, प्रकृतेः षुगागमो इस्वश्व भवतीति सूत्रार्थः । दृषदिति रूपम् । त्यजितनियजिभ्यो डित् । त्यज हानौ, तनु विस्तारे, यज देवपूजादौ, एभ्यो जायमानः अदिप्रत्ययो डिद् भवति । त्यदिति । अदिप्रत्ययस्य डित्त्वाहिलोपः । एतेस्तुद् च । इण गतावित्यस्माद् अदिप्रत्ययः, तस्य तुडागमश्च भवतीत्यर्थः । एतदिति रूपम् । सर्तेरटिः । स गतावित्यस्मादटिप्रत्ययः । सरट्शब्दार्थ विवृण्वन् कोशमाह सरद स्याद्वातमेघयोरिति । लोनलोपश्च । लघि शोषणे, अस्मादटिप्रत्ययः, नकारस्य लोपश्च । पारयतेरजिः । पारधातुश्चुरावाच्ये गण् स्यात्तस्य नुट् । 'अचोऽणिति' इति धातोर्वृद्धिः । शाङ्गः पक्षी। शा धनुरिति तु शृङ्गस्य विकार इति बोध्यम् । मुदिनोः । मुद हर्षे, गृ निगरणे, आभ्यां यथासंख्यं गक् ग इत्येतौ स्तः । मुद्गः सस्यभेदः । गर्गो मुनिविशेषः । अण्डन् । डुकृञ् करणे, सृ गतौ, भृञ् भरणे, वृञ् वरणे । 'करण्डो मधुकोशासिकारण्डेषु ललाटके' इति मेदिनी । वरण्डोऽप्यन्तरावेदौ समूहमुखरोगयोः' इति विश्वमेदिन्यौ। बाहुलकात् तृ प्लवनतरणयोरपि। 'तरण्डो बडिशीसूत्रवृद्धकाष्टादिके प्लवे' इति मेदिनी। शृद । शृ हिंसायाम् , दृ विदारणे, भस भर्त्सनदीप्त्योः । 'शरत् स्त्री वत्सरेऽप्य॒तौ । दरस्त्रियां प्रपाते च भयपर्वतयोरपि । भसत् स्त्री भास्वरे योनी' इति मेदिना । 'उवे अम्बसुलाभिकः' इति मन्त्रव्याख्यायां भसद्भग इति वेदभाष्यम् , 'जाघन्यो पनीः संयाजयन्ति भसदीय हि स्त्रियः' इत्यत्र भसजघनमिति व्याख्यातारः। दृणातः । द विदारणे । 'दृषनिष्पेषणशिलापट्टप्रस्तरयोः स्त्रियाम्'। इति मेदिनी । त्यजि । त्यज हानौ, तनु विस्तारे, यज देवपूजादौ । त्यदित्यादि ।
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy