________________
प्रकरणम् ६७ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१७१ खडिभ्यः कित् । छागः । पूगः । खड्गः । बाहुलकात् "षिट अनादरे' गन्सस्वा. भावश्च । षिड्गस्वरलः । 'षिड्गैरगयत ससम्भ्रममेवमेका' इति माघः । १२२ भृञः किन्नुट् च । भृनो गन्किरस्यात्तस्य नुट् च । 'भृक्षाः षिड्गानिधूम्याटा'। १२३ शृणातेह्रखश्च । शृङ्गम् । १२४ गएशकुनौ । नुट् चेत्यनुवर्तते । शाङ्गः। १२५ मुदिनोर्गग्गी । मुद्गः । गर्गः । १२६ अण्डन्कृसभृवृक्षः। करण्डः । भेदने, आहत्य त्रिभ्यो धातुभ्यो गन्प्रत्ययो भवति । स च कित्स्यात् । छागः पूग इति । कित्त्वाद् गुणाभावः । छायते छिद्यते यज्ञार्थमिति छागः, पूयते मुखमनेनेति पूगः । 'पूगः क्रमुकबृन्दयोः' इत्यमरः । खड्ग इति । 'खड्गो गण्डकशृङ्गासिबुद्धभेदेषु गण्डके' इति मेदिनी । भृतः किन्नु च । मृञ् भरणे, अस्माद् जायमानः गन्प्रत्ययः किद्भवति नुडागमश्च भवतीत्यर्थः । 'छापूखडिभ्यः कित्' इति पूर्वसूत्रास्किदित्यनुवर्तमाने पुनरिह किद्ग्रहणं विस्पष्टार्थम् । 'भृङ्गो धूम्याटषिङ्गयोः' इति मेदिनी । शृणातेर्हखश्च । शृ हिंसायामस्माद्धातोर्गन्प्रत्ययो भवति । धातोर्हखश्च भवति । प्रत्ययस्य च कित्त्वं नुट् चेत्यर्थः । शृङ्गमिति रूपम् । 'शृङ्गं प्रभुत्वे शिखरे चिह्न क्रीडाम्बुयन्त्रके । विषाणोत्कर्षयोश्चाथ शृङ्गः स्यात्कूर्चशीर्षके । स्त्री विषायां स्वर्णमीनभेदयोः ऋषभौषधौ' इति मेदनी। गण शकुनौ। शृणारित्यनुवर्तते । शकुनौ वाच्ये शृणातेर्गन्प्रत्ययो नुडागमश्च । शाङ्ग इति । णित्त्वाद् 'अचो रिणति' इति वृद्धिः, नुटः अनुस्वारपरसवर्णी, शाः पक्षी । शा धनुरिति तु शृस्य विकार इत्यर्थे बोध्यम् । मुदिनोर्गग्गौ। मुद हर्षे, गृ निगरणे आभ्यां यथासंख्यं गक् ग एतौ प्रत्ययौ स्तः । मुद्गः सस्यविशेषः द्राविडभाषायां पयरु इति प्रसिद्धः । गकः कित्त्वानोपधागुणः । गर्ग इति मुनिविशेषः । गप्रत्यये गुणः । एतदर्थमेव ग ग इति पृथग् विहितौ। अण्डन् कसभृवृक्षः। डु कृञ् करणे, सृ गतौ, भृञ् भरणे, छायते छिद्यते यज्ञार्थमिति छागः । पूयते मुखमनेनेति पूगः । 'पूगस्तु क्रमुके वृन्दे' इति मेदिनी । 'खङ्गो गण्डकशृङ्गे स्यानिस्त्रिशे गण्डकऽपि च' इति शब्दतरङ्गिणी। 'खगो गण्डकासिबुद्धभेदेषु गण्डके' इति मेदिनी । भृतः । डुमृञ् धारणपोषणयोः । किदित्यनुवर्तनात्किग्रहणमिह स्पष्टार्थम् । 'भृङ्गो धूम्याटषिङ्गयोः । मधुव्रते भृराजे पुंसि भृशं गुडत्वचि' इति मेदिनी । शृणातेः। शू हिंसायामस्माद्न् धातोर्हस्वत्वं प्रत्ययस्य तु कित्त्वं नुट् च । ' प्रभुत्वे शिखरे चिह्ने क्रीडाम्बु. यन्त्रके । विषाणोत्कर्षयोश्वाथ शाः स्यात्कूर्चशीर्षके । स्त्रीविषायां स्वर्णमीनभेदयोऋषभौषधौ' इति मेदिनी । ' विषाणमाख्यातं शैलाने जलयन्त्रके । मानौषधिसुवर्णानां भेदे शृङ्गी प्रयुज्यते' इत्युत्पलिनीकोषः । गण शकुनौ । शृणातेः शकुनी