SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६७ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ १६६ दणि चाण्डालोऽपीत्येके । ११५ तमिविशिविडि मृणिकुलिक पिपलिपञ्चिभ्यः कालन् । तमालः । विशालः । बिडालः । मृणालम् । कुलालः । कपालम् । पल/लम् । पञ्चालाः । ११६ पतेरङ्गच्पक्षिणि । पतङ्गः । ११७ पातालः । चण्डालः । इदित्त्वान्नुमि अदुपधत्वाभावान्न वृद्धिः । चाण्डाल इति तु प्रज्ञादित्वाद् बोध्य इति उज्ज्व तदत्तादयो वदन्ति, तदाह एक इति । अत्रास्वरस - बीजं तु 'कुलाल वरुड निषादचण्डालामित्रेभ्य-' इति वार्तिकतद्भाष्यविरोध एव । तत्र श्येतेभ्यः स्वार्थेऽविहितः । तमिविशि । तमु काङ्क्षायाम्, विश प्रवेशने, बिड " कोश, मृण हिंसायाम्, कुल संस्त्याने, कपि चलने, पल गतौ, पचि विस्तारे, एतेषां द्वन्द्वात्पञ्चमीबहुवचनम् । तमाल इति । 'तमालस्तिल के खड्डे तापिच्छे वरुणडुमे' इति मेदिनी । विशालः । बिडालः । ' खुर्बिडालो मार्जार:' इत्यमरः । मृणालः । कुलालः । ‘कुलालः ककुभे कुम्भकारे' इति मेदिनी । पतेरङ्गच पक्षिणि । पत्लृ 'अधोभुवनपातालं बलिसद्म रसातलम्' इत्यमरः । ' पातालं नागलोके स्याद्विवरे वडवानले ' इति मेदिनी । चण्डाल इति । इदित्त्वानुमि प्रदुपधत्वाभावान्न वृद्धिः । माधवेन तु 'पतिचण्डिभ्यामालन्' इति नितं पठित्वा पातालशब्दे बाहुलकाद् वृद्धिमुक्त्वा वृद्ध्यर्थमालत्रिति केषांचित्पाठे तु चण्डालशब्देऽपि वृद्धिः स्यादित्युक्तं तदतिरभसात् । एके इति । उज्ज्वलदत्तादयः । एतच्च 'कुलालवरुडकर्मारनिषाद चण्डालमित्रामित्रेभ्यश्छन्दसि' इति चण्डालात्स्वार्थेऽणं विदधता वार्तिकेन तद्भाष्येण च सह विरुद्धमिति बोध्यम् । तमिविशि । तमु काङ्क्षायाम्, विश प्रवेशने, विड कोश, मृण हिंसायाम्, कुल संस्त्याने, कपि चलने, निर्देशान्नलोपः । पल गतौ, पचि विस्तारे । ' तमालस्तिल के खड्ग तापिच्छे वरुणद्रमे' इति मेदिनी । 'विशाला त्विन्द्रवारुण्यामुज्जयिन्यां तु योषिति । नृपवृक्षभिदोः पुंसि पृथुलेऽप्यभिधेयवत्' इति मेदिनी । 'विडालो नेत्रपिण्डे स्याद् वृषदंशकके पुमान्' इति च मेदिनी । 'श्रोतुर्बिडालो मार्जारो वृषदंशक प्राखभुक्' इत्यमरः । ' मृणालं नलदे क्लीबं पुंनपुंसकयोर्बिसे' इति मेदिनी । 'कुलालः ककुभे कुम्भकारे स्त्री त्वञ्जनान्तरे' इति च मेदिनी । 'कुलालो घूकपक्षिणि । ककुमे कुम्भकारे च' इति हेमचन्द्रः । 'कपालोsस्त्री शिरोस्थि स्याद्वटादेः शकले व्रजे' इति मेदिनीविश्वप्रकाशौ । 'पाञ्चाली पुत्रिकागीत्योः स्त्रियां पुंभूनि नीति' इति मेदिनी । बाहुलकात् श्यतेरपि कालन । 'आदेच उपदेशे -' इत्यात्वम् । शाला । शल चलने । अस्माद् घञि शाला । 'सेनासुराच्छायाशालानिशानाम्' इति निपातनात्स्त्रीत्वमिति न्यासः । ' शाला द्रस्कन्धशाखायां गृहगे है कदे - शयोः । ना झषे' इति मेदिनी । पतेरङ्गच् । पत्लु गतौ । पक्षिणीत्युपलक्षणम् ।
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy