________________
१६]
सिद्धान्तकौमुदी। [ उणादि. घुण्डो भ्रमरः । ११३ स्थाचतिमृजेरालज्वालबालीयचः। तिष्ठतेरालच् । स्थानम् , स्थाली। चतेर्वालञ् । चास्वालः । मृजेरालीयच्, मार्जालीयो बिडालः । ११४ पतिचण्डिभ्यामालञ् । पातालम् । चण्डालः । प्रज्ञादित्वा. नित्यत्वादिति भावः । काण्डमिति । कमु कान्तावित्यस्माद् डप्रत्यये अनुनासिकस्य कीति दीर्घः । अनित्यत्वाश्रयणं तु लक्ष्यानुरोधादिति भावः । 'काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु' इत्यमरः । गुधातोर्डप्रत्यये गुड इति रूपम् । 'गुडो गोलेक्षुपाकयोः' इत्यमरः । घुण्ड इति । कित्त्वाद्गणाभावः । स्थाचतिमृजेराल. ज्वालबालीयचः । छा गतिनिवृत्तौ, चते याचने, मृजू , शुद्धौ, एभ्यः क्रमाद् भालच् , वालञ् , अालीयच् एते प्रत्ययाः स्युः। स्थालम् चात्वालः मार्जालीय इति रूपम्। अत्र लचा सिद्धे पालचि आकारोच्चारणं निष्फलमेव । स्थालमिति । 'स्थालं भाजनभेदेऽपि स्थाली स्यात्पादलेखयोः' इति मेदिनी। चात्वाल इति । 'चात्वालो यज्ञकुण्डे स्यात्' इति मेदिनी। मार्जालीय इति । 'मार्जालीयः स्मृतः शुद्रे बिडाले कायशोधने' इति मेदिनी । पतिचण्डिभ्यामालम् । पल गतौ, चडि कोपे, आभ्यामालञ्प्रत्ययः स्यात् । पालो जित्त्वादुपधावृद्धिः। पातालः । पतन्त्यस्मिन्निति कुण्डमिति । इह कुण्डमित्यत्र प्रायेणानुस्वारमेव लिखन्ति तत्तु प्रमादकृतम् । एवमन्यत्रापि बोध्यम् । डस्य कित्त्वान गुणः । अनुनासिकस्य किझलो:-' इाते दीर्घस्तु न भवति, बाहुलकात्संज्ञापूर्वकविधेरनित्यत्वाद्वेत्याहुः । 'कुण्डमग्न्यालये मानभेदे देवजलाशये । कुण्डी कमण्डलौ जारात्पतिवत्नीसुते पुमान् । पिठरे तु न ना' इति मेदिनी । 'अमृते जारजः कुण्डो मृते भर्तरि गोलकः' इत्यमरः। काण्डमिति। कमु कान्ती। 'अनुनासिकस्य-' इति दीर्घः । 'काराडोऽत्री दण्डबाणावर्गावसरवारिषु' इत्यमरः । अर्वा कुत्सितः । अत एव 'काण्डं स्तम्बे तरुस्कन्धे बाणेऽवसरनीरयोः। कुत्सिते वृक्षभिन्नाडीवृन्दे रहसि न स्त्रियाम्' इति मेदिनी । गुङ् अव्यक्त शब्दे । गुडी गोलेक्षुपाकयोः' इत्यमरः । गुडा स्नुही, तद्वत्केशा यस्य स गुडाकेशः शिवः जटाधारित्वात् । 'गुडः स्याद्गोलके हस्तिसन्नाहेrविकारयोः । गुडा स्नुह्यां च कथिता गुडिकायां च योषिति' इति मेदिनी । गुडाका निद्रा तस्या ईश इति वा जितेन्द्रियत्वादिति भावः । स्थाचति । ठा गतिनिवृत्तौ, चते याचने, मृजू शुद्धौ । लचा सिद्धे आलच श्राकारश्चिन्त्यप्रयोजनः । चित्स्वरं बाधित्वा पक्षे श्राद्युदात्तार्थमित्येके। 'स्थालं भाजनभेदेऽपि स्थाली स्यात् पादलेखयोः' इति मेदिनी । चात्वालो यज्ञकुण्डे स्याद्दर्भ च' इति विश्वः । 'मार्जालीयः स्मृतः शूद्रे बिडाले कायशोधने' इति मेदिनी। पतिचण्डि । पत्ल गतौ, कोपे। पतन्त्यस्मिनधर्मेणेति पातालम् । उपधावृद्धिः ।