SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ .प्रकरणम् ६७ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ १६७ चण्डः | बाहुल कात्सत्वाभावः । षण्डः संघातः । तालग्यादिरित्यपरे । शण्डः । गण्ड: । चण्डः । पण्डः क्रीबः । पण्डा बुद्धिः । ११२ क्कादिभ्यः कित् । कवर्गादिभ्यो ङः किस्स्यात् । कुण्डम् । काण्डम् । गुड् गुडः । घुण भ्रमणे, दमु उपशमे अस्माड्डप्रत्ययः । 'नेड्वशि कृति' इति निषेधादिडागमो न । बाहुलकात् 'चुटू' इतीत्संज्ञा न । ' दण्डोऽस्त्री लगुडेऽपि स्यात्' इत्यमरः । रण्डेति । रंमु क्रीडायाम् इत्यस्माडप्रत्ययः । ' रण्डा मूषकपराय च विधवायां च योषिति' इति मेदिनी । खण्ड इति । खनु अवदारणे । ' खण्डोऽस्त्री शकले चेक्षुविकारमणिभेदयो:' इति कोशः । मण्ड इति । मन ज्ञान इत्यस्माडप्रत्ययः । ' मण्डः पञ्चाङ्गले शाकभेदे क्लीचं तु मस्तुनि' इति मेदिनी । वराड इति । वन संभक्तावित्यस्माद् डप्रत्ययः । अण्ड इति । अम गत्यादिषु । षण्ड इति । षणु दाने इत्यस्माङ्कुप्रत्ययः । ‘धात्वादेः षः सः' इति सत्वमाशङ्कयाह बाहुलकादिति । गराड इति । गम्लृ गतौ । चण्ड इति । चण दाने । पण्ड इति । पण व्यवहारे स्तुतौ च। एवं फाण्ड इत्यादिरूह्यः। क्वादिभ्यः कित् । कुः कवर्गः, तदादिभ्यो धातुभ्यः जायमानो डप्रत्ययः कित्स्यात् । कुण्डमिति । कुण शब्दोपकरणयोः, डप्रत्ययस्य कित्वाद् न गुणः । ‘अनुनासिकस्य क्विझलोः क्ङिति' इति दीर्घस्तु न भवति, संज्ञापूर्वकविधरस्याद्भागवस्तुनि वल्कले' इति मेदिनी । छो गुक् । छो छेदने । 'छगलं नीलवस्त्रे ना छागे स्त्री वृद्धदारके' इति मेदिनी । अमन्ताडुः । नमिति प्रत्याहारः, दमु उपशमे, रमु क्रीडायाम्, खनु अवदारणे, मन ज्ञाने, वन संभक्लौ, अम गत्यादिषु, षणु दाने, गम्लृ गतौ, चण दाने, पण व्यवहारे स्तुतौ च । काशिकायां तु त्रिभ्य एव कणमाः स्युरित्युक्तम् । अम् प्रत्याहारस्तु न स्वीकृतः । अष्टाध्याय्यां तस्य विषयाभावात् । दण्ड इति । बाहुलकात् 'चुटू' इति नेत्संज्ञा । 'दण्डोऽस्त्री लगुडोऽपि स्यात् ' इत्यमरः । ‘रण्ड। मूषकपर्यां च विधवायां च योषिति । खण्डोऽस्त्री शकले तु. विकार मणिभेदयोः । मण्डः पञ्चाङ्गले शाकभेदे क्लीबं तु मस्तुनि । चराडा तु पांसुलाय स्त्री त्रिषु हस्तादिवर्जिते' । श्रमन्ति श्रनेनेति अण्डः प्राण्यवयवः । 'राडः पद्मादिसंघाते वर्तते न स्त्री स्याद् गोपतौ पुमान्' । शडि रुजायाम्, अस्माद् घनि शण्डशब्दस्तालव्यादिरपि संघाते वर्तते इत्याशयेन मतान्तरमाह तालव्यादिरित्यपरे इति । 'गण्डः स्यात्पुंसि खङ्गिनि । चिह्नवीरकपालेषु हयभूषण बुद्बुदे । चराडो ना तिन्तिणीवृक्षे यमकिंकर दैत्ययोः । चराडी कात्यायनी देव्यां हिंस्रा कोपनयोषितोः । पण्डः षण्डे धियि स्त्री स्यात्' इति मेदिनी । फण्ड इति । फण गतौ फण्डः । प्रज्ञादित्वादण् । फाण्डमुदरम् । क्वादिभ्य कित् । कुण शब्दोपकरणयोः
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy