________________
सिद्धान्तकौमुदी। [ उणादिमनम् । १०८ चुपेरञ्चोपधायाः । चपलम् । १०६ शकिशम्योर्नित् । शकलम् । शमलम् । ११० छो गुग्घ्रस्खश्च । छगलः । प्रज्ञादित्वाच्छागलः । १११ अमन्ताड्डः। दण्डः । रण्डा । खण्डः । मण्डः । वण्डः छिचहस्तः । रूपम् । 'मलोऽस्त्री पापविट् कि? कृपणे त्वभिधेयवत् ' इति मेदिनी । चुपेरच्चोपधायाः । चुप मन्दायां गतो, अस्माद्धातोः कलप्रत्यये उपधाया उकारस्य प्रकारे चपल इति रूपम् । शकिशम्योर्नित् । शक्ल शक्ती, शम उपशमे, आभ्यां कलप्रत्ययो निच्च भवति । शकलं शमलमिति रूपम् । छो गुक् हखश्च । छो छेदने, अस्मात्कलप्रत्ययः गुगागमः प्रकृतेरवयवस्याकारस्य ह्रखश्च भवतीत्यर्थः । ननु कथं छागल इति, अनेन ह्रस्वस्य दुर्निवारत्वादित्यत आह प्रशादित्वादिति । 'प्रज्ञादिभ्यश्च' इत्यणि छागल इति भवतीत्यर्थः । स्वार्थिकोऽयं तद्धितप्रत्ययः। अमन्ताड्डः । अम् प्रत्याहारः । अमन्ताद् धातोर्डप्रत्ययः स्यात् । दण्ड इति । एवमप्रेऽपि । मुडागमो बाहुलकादेव । कुटिकशि । कुट कौटिल्ये, कश गतिशासनयोः, कु शब्दे, अस्मात्कलप्रत्यये गुणो नेत्याशयाह बाहुलकादिति । 'कोमलं मृदुलं मृदु' । बाहुलकादन्यत्रापि बोध्यः। तद्यथा-कुस श्लेषणे। दन्त्यान्तोऽयम् । बोपदेवमते तु तालव्यान्तोऽपि, गुणः कोशलः कोसलो वा देशविशेषः । वृद्धकोसला-' इति सूत्रे तु दन्त्यान्त एव सांप्रदायिकः । संब संबन्धे, शंब च । संबलं शंबलम् । 'शंवलोऽस्त्री संबलवत् कुलपाथे च मत्सरे' इति मेदिनी। कदि अाह्वाने नलोपः । गौरादित्वान्डीषि कदली । 'मन्दान्दोलितकर्पूरकदलीदलसंज्ञया। विश्रमाय श्रमापन्नानाह्वयन्तीमिवाध्वगान्' इति काशीखण्डम् । अजादेराकृतिगणवाट्टाबपि । कदला कदलो पृश्न्यां कदली कदले पुनः ।रम्भावतेऽथ कदली पताकामृगभेदयोः । कदली बिम्बिकायां च' इति मेदिनी। कुश इति सौत्रो धातुः । 'कुशलः शिक्षिते त्रिषु । क्षेमे च सुकृते चापि पर्याप्तौ च नपुसके' इति मेदिनी। कमु कान्तौ । कमलं सलिले ताने जलजे व्योनि भेषजे । मृगभेदे तु कमलः कमला श्रीवरस्त्रियोः' इति विश्वमेदिन्यो । मडि भूषायाम् । 'मण्डलं परिधौ कोठे देशे द्वादशराजके' इति मेदिनी । 'कोठो मण्डलकं क्लीबे' इत्यमरः । बिम्बोऽस्त्री मण्डलं त्रिषु' इति च । मृजेः। मृजू शुद्धौ । 'मलोऽस्त्री पापविकिट्टे कृपणे त्वभिधेयवत्' इति मेदिनी । चुपेः । चुप मन्दायां गतौ । 'चपलः पारदे मीने चोरके प्रस्तरान्तरे । चपलाकमलाविद्युत्पुंश्चलीपिप्पलीषु च । नपुंसके तु शीघ्रं स्याद्वाच्यवत्तरले चले' इति मेदिनी। शकिशम्योः । शक्ल शक्ती, शम उपशमे । शकलं खण्डे रोहितादीनां त्वचि च । तद्योगात् शकली मत्स्यः । मत्स्यान शकलानिति भाष्यम् । 'शकलं त्वचि खण्डे