________________
●
•
1
प्रकरणम् ६७ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ १६५ त्रिके' । १०५ शपेर्बश्च । शबलः । १०६ वृषादिभ्यश्चित् । वृषलः । पललम् । बाहुलकाद् गुणः । सरलः । तरलः । 'कमेर्बुक् (च ) ( गया १६६ ) कम्बलः । मुस खण्डने, मुसलम् । 'लङ्गेर्वृद्धिश्च' (गण ११७ ) लाङ्गलम् । कुटिकशि कौतिभ्यः प्रत्ययस्य मुट् (च ) ' ( गण १६८ ) कुद्मलः । कुडेरपि, कुड्मलः । कश्मलम् । बाहुलकाद् गुणः, कोमलम् । १०७ मृजेष्टिलोपश्च । इति भाव: । शपेर्बश्च । शप कोशे इत्यस्मात् कलप्रत्ययो भवति । धातोः पकारस्य बकारश्चान्तादेश इत्यर्थः, शबल इति रूपम् । वृषादिभ्यश्चित् । वृष सेचने, पल गतौ, इत्यादिभ्यः कलप्रत्ययः । स च चिद्भवति । चित्त्वं स्वरार्थम् । नन्वेवमपि सरल इत्यादौ कथं गुणः प्रत्ययस्य किश्वादित्यत आह बाहुलकादिति । कम्बल इत्यत्र प्रक्रियामाह बुगिति । लङ्गेर्वृद्धिश्च । लगि गतौ इत्यस्मात्कलप्रत्ययो भवति, प्रकृतेर्वृद्धिश्च । लाङ्गलमिति रूपम् । कुटिकशिकौतिभ्यः प्रत्ययस्य मुट् । कुट कौटिल्ये, कश गतिशासनयो:, कुशब्दे, एषां द्वन्द्वात्पञ्चमी । एभ्यः कलप्रत्ययो भवति, तस्य मुडागमश्च भवतीत्यर्थः । कुट्मलमित्येव रूपम् । कुड्मलशब्दस्तर्हि असाधुरित्याशङ्कायामाह कुडेरपीति । बाहुलकादिति भावः । ननु कोमलमिति कथम्, कलप्रत्ययस्य कित्त्वेन गुणासंभवादित्यत श्राह बाहुलकादिति । एवमन्येऽपि कोसलादयः शब्दा बोध्याः । मृजेष्टिलोपश्च । कलप्रत्ययस्तत्संनियोगेन टेः ऋज् इत्यस्य लोपः । मलमिति इति सूत्रे रक्षितः । शपेः। शप आक्रोशे । वृषादिभ्यः । वृषु सेचने, पल गतौ, सृ गतौ, नृ प्लवनतरणयोः । 'शुदाश्चावरवर्णाश्च वृषलाश्च जघन्यजाः' इत्यमरः । 'वृषलस्तुरगे शूद्रे' इति हेमचन्द्रः । 'पललं तिलचूर्णे च पिके मांसे नपुंसकम् । ना राक्षसे' इति मेदिनी । फलप्रत्ययस्य कित्त्वादाह बाहुलकादिति । 'सरलः पूतिकाष्ठे नाऽथोदारावक्रयोस्त्रिषु' इति मेदिनी । 'सरला विरलायन्ते घनायन्ते कलिद्रुमाः । न शमी न च पुन्नागा अस्मिन्संसार कानने ' इत्यभियुक्त प्रयोगः । कमेः । कमु कान्तौ । अस्माद् वृषादित्वेन कलप्रत्यये बाहुलकादित्यनुषज्यत इति बुक् 'कम्बलो नागराजे स्यात्सास्नाप्रावारयोरपि । कृमावप्युत्तरासङ्गे सलिले तु नपुंसकम्' इति मेदिनी । 'मुसलं स्यादयोऽप्रे च पुंनपुंसकयोः स्त्रियाम् तालमूल्यामाखुपर्णीगृहगोधिकयोरपि' इति मेदिनी । मूर्धन्यमध्योऽप्ययमिति वर्णदेशना । मुस खण्डन इति धातोर्दन्त्यान्तेषु मूर्धन्यान्तेषु च बोपदेवादिभिः पाठितत्वात् । उज्ज्वलदत्तादयस्तु तालव्यमध्यमप्याहुः । श्रतएव 'मुसलो मुषलोऽपि च' इति विश्वकोशे । मुशलोऽपि चेति पाठान्तरम् । लङ्गे । लगि गतौ श्रस्मात्कलप्रत्यये बाहुलकादित्यनुषङ्गाद्वद्धिरिति भावः ।
1
c