SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६७ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ १६३ ६६ हृषेरुलच् । 'हर्षुलो मृगकामिनो:' । बाहुलकाच्चटते, चटुलं शोभनम् । ६७ सुरुहियुषिभ्य इतिः । 'हरिस्ककुभि वर्णे च तृणवाजिविशेषयोः' । सरिनदी । रोहित मृगविशेषस्य स्त्री । युष इति सौत्रो धातुः । 'ऋश्यस्य रोहित् पुरुषस्य योषित्' इति भाष्यम् । ६८ ताडेरिलुक् च । ताडयतीति • स्यात् तत्संनियोगेन मुडागमश्च । गर्मुदिति रूपम् । 'गर्मुत् स्त्री स्वर्णलतयोः' इति कोशादाह स्वर्ण लताविशेषश्चेति । हृषेरुलच् । हृष हृष्टौ अस्माद् उलच्प्रत्ययः स्यात् । हर्षुल इति । लघूपधगुणः । चटुल इति रूपं साधयितुमाह बाहुलकादिति । चटतेरिति । चटे वर्षावरणयोरित्यस्मादित्यर्थः । हृसुरुहियषिभ्य इतिः । हृञ् हरणे, सृ गतौ, रुह बीजजन्मनि, युषि एषां द्वन्द्वात्पञ्चमी । एभ्य इतिप्रत्यय इत्यर्थः । इकारस्वकारस्येत्संज्ञातः परित्राणार्थः । हरिच्छन्दार्थ विवरिषुर्विश्वकोशमाह हरित्ककुभीति । 'हरिद्दिशि स्त्रियां पुंसि हर्षवर्णविशेषयोः ' इति मेदिनीकारः । सरिनदीति सुप्रसिद्धम् । रोहिच्छब्दार्थमाह मृगविशेषस्य स्त्रीति । 'रोहिन्मृग्यां लताभेदे' इति मेदिन्याम् । ननु युषधातुर्धातुपाठे नोपलभ्यत इत्यत आह युष धातुः सौत्र इति । ताडेरिलुक् च । तड ताडने चुरादिः। श्रस्माद्धातोः इतिप्रत्ययः स्याद् णिलुक् चेति सुत्रार्थः । तडिदिति । ' तडित्सौदामनी विद्युत्' इत्यमरः । ' रनिटि' इति सूत्रेणैव लोपे सिद्धेऽनेन लुग्विधानं उपधावृद्धयभावार्थम् । लोपे हि प्रत्ययलक्षणेन उपधावृद्धिर्भवेदेव । अत एव च भाव्यत इत्यादौ णिलोपेऽपि वृद्धिर्भवति । ननु रायन्तस्य केवलस्य वा तडधातोः सेट्कत्वादिडागमेनैव रूपं सिध्यति, इडाद्यार्धधातुकत्वेन लपा भावेऽपि श्रनेन लुग्विधानात् । -- निगरणे, श्राभ्यामुतिरितीकारस्तकारस्येत्संज्ञा परित्राणार्थः । मरुदिति । प्रज्ञादिस्व - दणि मारुतोऽपि । मरुतशब्दोऽप्यव्युत्पन्नोऽस्ति । तथा च विक्रमादित्यकोशः 'मरुतः स्पर्शनः प्राणः समीरो मारुतो मरुत्' इति 'कोऽयं वाति स दाक्षिणात्यमरुतः ' इति कविराज श्लोकेऽनुपपत्तिं मत्वा दाक्षिणात्यपवन इति पाठं केचित्कल्पयन्त्यल्पदृश्वान इति वर्णविवेकः । गरुदिति । यवादिरयम् । तेनास्मात्परस्य मतुपो मस्य 'झयः ' इत्यनेन वत्वं न । गरुत्मान् । गर्मुदिति । 'गर्मुत्स्त्री स्वर्णलतयोः' इति मेदिनी । हृषेः । हृष तुष्टौ । चटतेरिति । चटे वर्षावरणयोः । हृसृ । हृञ् हरणे, सृ गतौ, रुह बीजजन्मनि । विश्वकोशस्थमाह हरिदिति । 'हरिद्दिशि स्त्रियां पुंसि हर्षवर्णविशेषयोः । अस्त्रियां स्यात्तृणे च' इति मेदिनी । ऋश्यस्येति एतेन 'गतं रोहिद्भूतां रिरमयिषुमृश्यस्य वपुषा' इति पुष्पदन्तप्रयोगो व्याख्यातः । 'रोहिन्मृग्यां लताभेदे स्त्री नार्के' इति मेदिनी । ताडे: । तङ श्राघाते ण्यन्तः । 1
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy