SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १६२] सिद्धान्तकौमुदी। [ उणादितनादित्येके, इन्भूः । जनेर्बु जम्बूः । जमु भदने, इत्यस्येत्येके । बाहुलकाद्ध. स्खोऽपि, जम्बुः । कर्फ जाति कफैलूः श्लेष्मातकः । निपातनादेवम् । कर्क दधाति कर्कन्धर्बदरी, निपातनान्नुम् । दिषि धैर्य स्यति त्यजतीति दिधिषः पुनर्भूः । केचित्तु 'अन्दूदृम्फूजम्बूकम्बू' इति पठन्ति । 'इम्फ उक्लेशे' हस्फूः सर्पजातिः । 'कमेर्बुक्' कम्बूः परद्रव्यापहारी । ६४ मृगोरुतिः । मरुत् । गरुस्पतः । ६५ ग्रो मुद् च । गिरतेरुतिस्तस्य च मुट् । गर्मुस्सुवर्ण लताविशेषश्च । दित्त्वान्नुम् । दृभीधातोरीदित्वात् कथं नुमित्यत्राह निपातनान्नुमिति । केचिद् इन्भूरिति पठन्ति, तन्मतेऽनुस्वाराभावोऽपि निपातसाध्य इत्याह अनुस्वाराभाव इति । जनधातोराह जनेर्बगिति। बुगागमोऽपि कूप्रत्ययसंनियोगेन विधीयत इत्यर्थः । ततश्चानुस्वारे परसवर्णे मकारे जम्बूरिति रूपम् । ननु कथं जम्बुशब्द इत्यत्राह बाहुलकादिति । मृगोरुतिः। मृङ् प्राणत्यागे, गृ निगरणे, आभ्यां उतिप्रत्ययः स्यात् । मरुत् । मरुतशब्दोऽप्यस्ति । तथा च विक्रमादित्यकोशः 'मरुतः स्पर्शनः प्राणः समीरो मारुतो मरुत्' इति एतेन 'कोऽयं वाति स दाक्षिणात्यमरुतः' इति कविराजश्लोके मरुत इत्यनुपपन्नमिति मत्वा दाक्षिणात्यपवन इति पठन्तः प्रत्युक्ताः । गरुत्मानित्यत्र 'मादुपधायाः-' इत्यनेन वत्वाभावस्तु अस्य यवादित्वात् सिद्धः, अयवादिभ्य इति निषेधात् । यो मुद् च । गृ निगरणे इत्यस्माद् उतिः पूर्वः षत्वं च । अन्दूर्बन्धनमिति । 'अन्दूः स्त्रियां स्यानिगडे प्रभेदे भूषणस्य च' इति मेदिनी। 'अन्दुको हस्तिनि गदे' इत्यमरः । संज्ञायां कन् । 'केऽणः' इति ह्रस्वः । केचित्तु अम गतौ अस्य दुक्, अन्दू बुद्धिरिति व्याचख्युः । दृभी ग्रन्थ इति । तुदादिरयम् । दृभतीति इम्भूः संदर्भकतेत्यर्थः । कथक इत्यन्ये । कैयटमतानु. रोधेनास्य रूपाणि हूहूवदित्युक्तम् । माधवादयस्तु दृढशब्दे उपपदे भुवः कूप्रत्यय उपपदस्य दृन्नादेशो निपात्यते । यद्वा दृढार्थक दृनिति नान्तमव्ययमुपपदम् । इन्भूस्तु सर्पः कपिर्वेति व्याख्याय 'इन्कर-' इति यणि वर्षाभूवद्रूपमस्येत्याहुः। ह्रस्वोऽपीति। अत एव विक्रमादित्येनोहं 'तस्या जम्बोः फलरसो नदीभूय प्रवर्तते' इति । केचित्तु 'परिणतजम्बुफलोपभोगहृष्टा' इति भारविप्रयोगं ह्रस्वान्तत्वे साधकत्वेनोदाजहस्तन, 'इको ह्रस्वो ज्य-' इत्युत्तरपदाधिकारस्थह्रस्वविधायकसूत्रेण गतार्थत्वात् । दिधिमिति । केचित्तु दधातेरित्वं द्वित्वं षुक् च निपात्यते। दधात्यसौ दिधिपूरित्याहुः । पुनर्भूरिति । 'पुनर्भूदिधिषूरूढा द्विः' इत्यमरः। द्विरूढा द्विवारं विवाहितेत्यर्थः । उज्ज्वलदत्तोक्तं पाठमाह केचित्विति । एतच कैक्रमाधवादिप्रन्थविस्वम् । अत एव 'यम्भूः की सर्पचक्रयोः' इति भान्ते मेदिनी। मृणोः। मृङ् प्राणत्यागे, गृ
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy