________________
प्रकरणम् ६७ ]
बालमनोरमा-तत्त्वबोधिनीसहिता । [ १६१
स्याद्द। रुहस्तकः' । ६० दरिद्र्।तेर्यालोश्च । इश्व श्राश्व यौ, तयोर्लोपः । दर्दूः कुष्ठप्रभेदः । ६१ नृतिश्शृध्योः कुः । नृतुर्नर्तकः । शृधूरपानम् । १२ ऋतेरम् च । ऋतिः सौत्रो धातुः । ततः कूरमागमश्च । रन्तुर्देवनदी सत्यवाक् च । ६३ अन्दूरम्भू जम्बूक फेलूकर्कन्धूदिधिषूः । एते कूप्रत्ययान्ता निपात्यन्ते । न्दू बन्धनम् । भी ग्रन्थे, निपातनान्नुम् । दृम्भूः । अनुस्वाराभावोऽपि निपातृ प्लवनतरणयोरित्यस्माद् ऊप्रत्ययः, दुडागमश्च । अयं चागमः प्रत्ययस्य । नन्वेवं प्रत्ययस्य बलादित्वाद् आर्धधातुकत्वाच्च इडागमो दुर्वार इति वाच्यम्, 'नेड्वशि कृति ' इति निषेधात् । केचित्तु त्रो दुक्चेति पठित्वा ऊप्रत्ययसंनियोगेन प्रकृतेर्दुगागममाहुः । तेषां यद्यपि इडागमाभावः सिद्धः, तथापि इगन्तत्वाभावादङ्गस्य गुणो न स्यात् । नच 'पुगन्त-' इति गुणो भविष्यतीति वाच्यम्, तृधातोः ऋकारान्तत्वेन लघूपधत्वाभावात् । यदि कथंचिदेतन्मते आमहस्तर्हि दुक् चेत्यत्र चकारो दुगागमात्पूर्व यत्कार्य भवितव्यं तदपि भवतीति बोधनार्थमिति क्लिष्टकल्पनं शरणम् । दरिद्रातेर्या लोपश्च । दरिद्रा दुर्गतावित्यस्मादूप्रत्ययः, यालोपश्च भवतीत्यर्थः । यालोप इत्येतद्विवृणोति इश्च श्रश्चेति । या औ इत्यत्र वृद्धौ यौ, तयोर्लोप इत्यर्थः । नृतिष्टध्योः कुः । नृती गात्रविक्षेपे, शृधु हिंसायाम्, आभ्यां कूप्रत्ययः स्यात् । ऋतेरम् च । ऋतिः सौत्रो धातुः । तस्मात्कूप्रत्ययः स्यात्, प्रकृतेरमागमश्चेत्यर्थः । ऋतू इति स्थिते श्रमागमे ऋकारात्परे सति ऋकारस्य यणि च रन्तूरिति रूपम् । अन्दूदृम्भू जम्बू । अदि बन्धने, हमी प्रन्थे ईदित् जनने, ला प्रदाने कफपूर्वः, डु धाञ् धारणपोषणयोः कर्कपूर्वः, षोऽन्तकर्मणि दिधिपूर्वः, एषां समाहारद्वन्द्वात्प्रथमा । एते कूप्रत्ययान्ता निपात्यन्ते । श्रदिधातोरिप्लबनतरणयोः। तर्दूरिति । ‘नेड्डुशि -' इति नेट् । वरमनादाविति परिगणनं तु बाहुलकान्नाश्रीयते इत्याहुः । केचित्तु इडभावाय 'त्रो दुक् च' इति पाठित्वा धातोर्दुगागममाहुः । तेषां तु धातोर्गुणो दुर्लभः । दुगागभात्पूर्वं यत्प्राप्तं तदपि भवतीत्येवं चकारबलेन व्याख्याय वा गुणः साधनीयः । दरिद्रातेः । दरिद्रा दुर्गतौ । इश्च श्रश्चेति । भोजदेवस्तु र्यालोप इति रेफादिकं पदं छित्त्वा द्वेधा व्याख्यातवान् । रिश्च श्राश्चेति व्याख्याने दद्रूः । रश्च इश्च आश्चेति व्याख्याने तु 'अन्त्यबाधेऽन्त्यसदेशस्य' इति द्वितीयस्यैव रेफस्य लोपार्दूरिति । मृगय्वादित्वात्कुप्रत्यये दर्दुरित्यन्ये। 'दर्द्वणो ददुरोगी स्यात्' इत्यमरः । इत्थं चत्वारि रूपाणि । नृति । नृती गात्रविक्षेपे, धु शब्दकुत्सायाम् । अन्दूम्भू । दिबन्धने । 'नृतिशृध्योः कू:' इत्यत्रादिग्रहणं न कृतं वैचित्र्यार्थ - मित्याहुः । ला श्रादाने कफपूर्वः । दुधाञ् धारणादौ कर्कपूर्वः । षोऽन्तकर्मणि दिधि
जन
१ – कर्तरि तव्यदयमपाणिनीयः, बाहुलकाद्वा बोध्यः ।
--