________________
१६०]
सिद्धान्तकौमुदी। [उणादि. ८३ वहो धश्च । 'वधूर्जायास्नुषास्त्रीषु' । ८४ कषेश्छश्च । कच्छूः पामा । ८५ णित्कसिपद्यर्तेः । कासूः शक्तिः। पादूश्चरणधारिणी । श्रारू: पिङ्गलः । ८६ अणो डश्च । प्राडूर्जलप्लवद्रव्यम् । ८७ नञि लम्बेर्नलोपश्च । 'तुम्ब्यलाबूरभे समे' इत्यमरः । ८८ के श्र एरङ् चास्य । कशब्दे उपपदे शृणातेरूः स्यात् । एरङादेशः । 'कशेरूस्तृणकन्दे स्त्री' । बाहुलकादुप्रत्यये कशेरुः । क्रीबे पुंसि च ।८६त्रो दुद् च । तरतेरू: स्यात्तस्य दुट् । 'तर्वैः 'स्त्रियां मूर्तिस्तनुस्तनूः' इत्यमरः । मृजेर्गुणश्च । 'मृजेर्वृद्धिः' इति वृद्धयभावः, ऊप्रत्ययसंनियोगेन गुणो विधीयते । मजूरिति रूपम् । वहो धश्च । वह प्रापण इत्यस्मादूप्रत्ययः। तत्संनियोगेन धातोधकारः अन्तादेशश्च । वधूरिति । 'वधूः स्नुषा नवोढा स्त्री भार्याप्रकाङ्गनासु च' इति विश्वः । कषेश्छश्च । कष हिंसायाम् , अस्मादूप्रत्ययो भवति, तत्संनियोगेन छकारश्चान्तादेशः। कच्छूरिति रूपम् । 'कच्छवां तु पाम पामा विचर्चिका' इत्यमरः । णित्कसिपद्यर्तेः । कस गती, पद गतौ, ऋ गतो, एषां समाहारद्वन्द्वात्पञ्चमी । एभ्य ऊपत्ययः स्यात् , स च णिद् भवति । णित्कार्य प्रवर्तयतीत्यर्थः । कासूः शक्तिरिति । 'कासूर्विकलवाचि स्यात् ।' इति मेदिनीकारः । अणो डश्च । अण शब्दे अस्मादूः स्यात् , स च णित् प्रकृतेर्डकारश्वान्तादेशो भवतीत्यर्थः । आडूरिति रूपम् । नजि लम्बेर्नलोपश्च । अवलंसनार्थकाद् लबिधातोः ननि उपपदे ऊप्रत्ययो भवति, स च णित्, धातोरिदित्त्वाद् लब्धस्य नकारस्य लोपश्च भवतीत्यर्थः । न लम्बते नावतंसते जले इत्यर्थेऽनेन ऊप्रत्ययेऽनुनासिकलोपे च 'अत उपधायाः' इत्यनेनोपधावृद्धौ अलाबूरिति रूपम् । के श्र एरङ् चास्य । शु हिंसायामित्यस्य श्र इति पञ्चम्यन्तम् । शेषं स्पष्टम् । कशेरुरिति कथम् ? ऊप्रत्ययस्यैवानुशासनादित्यत आह बाहुलकादिति। त्रो दुट्च। दपे कण्डाम्' इति च । मृजेः । मृजू शुद्धौ । अस्मादूः स्याद्वय ग्वादो गुणश्च । 'मर्जूः स्त्री शुद्धौ धावकेऽपि च' इति मेदिनी । वहो धश्च । वह प्रापणे। 'वधूः स्नुषा नवोढा स्त्री भार्या प्रकाशनासु च' इति विश्वः। 'पृक्का महिला च वधूः' इति त्रिकाण्डशेषः । कषेछश्च । कषशिषति दण्डके हिंसार्थोऽस्मादूः स्याच्छश्चान्तादेशः, 'कच्छो तु पाम पामा विचर्चिका' इत्यमरः । णित्कसि।कस गती, पद गौ, ऋगतौ । 'कासूर्विकलवाचि स्यात्तथा शक्त्यायुधे स्त्रियाम्' इति मेदिनी । 'कासूः शक्त्यायुधे रुजि । बुद्धौ विकलवाचि स्यात्' इति हेमचन्द्रः । अणो डश्च । श्रण दण्डके शब्दार्थः । अस्मादूः स्यात्स चणिद् डश्चान्तादेशः । नजि लम्बेः। लबि अवसंसने । न लम्बते जले इत्यलाबूः । के श्र।शु हिंसायाम् । त्रो दुद् च । तृ