________________
प्रकरणम् ६७ ]
बालमनोरमा-तत्त्वबोधिनीसहिता । [ १५e
अप्तुः शरीरम् । ७५ वसेस्तुन् । वस्तु । ७६ अगारे णिश्च । ' वेश्मभूर्वास्तुरस्त्रियाम्' । ७७ कृञः कतुः । क्रतुर्यज्ञः । ७८ एधिवह्योश्चतुः । एधतुः पुरुषः । वहतुरनड्वान् । ७६ जीवेरातुः । जीवातुरस्त्रियां भक्ते जीविते जीवनौषधे' । ८० श्रातृकन्वृद्धिश्च । जीवेरित्येव । 'जैवातृकस्टिवन्दुभिषगायुष्मत्सु कृषीवले' । ८१ कृषिचमितनिधनिसर्जिखर्जिभ्य ऊः । कर्षुः पुंसि करीषा नौ कर्पूर्नद्यां स्त्रियां मता । चमूः । तनूः । धनुः शस्त्रम् । सर्ज सर्जने, सजूँर्वणिक् । खर्ज व्यथने, खर्जूः पामा ८२ मृजेर्गुणश्च । मर्ज्ः शुद्धिकृत् ।
प्रकृतेर्हखश्च भवति । अप्तुः शरीरमिति । वसेस्तुन् । वस निवास इत्यस्मात्तुन् स्यात् । वस्तु । अगारे णिच । अगारे वाच्ये वसधातोर्जायमानस्तुन्प्रत्ययो णिद्भवतीत्यर्थः । णित्त्वादुपधावृद्धिः । कृञः कतुः । डुकृञ् करणे इति धातोः कतुप्रत्ययो भवति । तस्य कित्त्वाद् गुणाभावे यणादेशे च क्रतुरिति रूपम् । एधिवह्योश्चतुः । एध वृद्धौ, वह प्रापणे, आभ्यां चतुः स्यात् । एधतुः वहतुः । जीवेरातुः । जीव प्राणने, अस्मादातुप्रत्ययः । जीवातुः । कन्वृद्धिश्च । जीवेरित्यनुवर्तते । जीव प्राणने इत्यस्मादावृकन्प्रत्ययो भवति, प्रकृतेरिको वृद्धिश्च भवति । जैवातृक इति रूपम् । कृषिचमितनि । कृष विलेखने, चमु अदने, तनु विस्तारे, धन धान्ये, सृज विसर्गे इत्यस्य न प्रहणं तस्य इका निर्देशेऽपि इकः कित्त्वाद् गुणाभावे सृजीत्येव निर्देष्टव्यत्वात्, किंतु सर्ज सर्जन इत्यस्य ग्रहणम्, खर्ज व्यथने, एष द्वन्द्वात्पञ्चमी । रभसकोशमाह कर्षुः पुंसि करीषानौ कर्पूर्नद्यां स्त्रियां मतेति । 'कर्पू: पुमान्करीषानौ' इति मेदिनी । चमूः सेना । तनूरिति ।
1
1
विप्रहोत्पातेषु लक्ष्मणि' इति मेदिनी । आप्नोतेः । आलु व्याप्तौ । ऋतुः शरीरमिति । श्रभिलषितार्थश्वाप्तव्यत्वात् । अतएव यागविशेषवाचकस्याऽप्तोर्यामशब्दस्याभिलषितार्थप्रापक इत्यवयवार्थमाहुः । वसेः । वस निवासे । कृञ्ः । डुकृञ करणे । क्रतोः कित्त्वाद् गुणाभावे यणादेशः । 'ऋतुर्यज्ञे मुनौ पुंसि' इति मेदिनी । एधिवह्योश्च तुः । एष वृद्धौ, वह प्रापणे चित्त्वादन्तोदात्तः । ' स्योनं पत्ये वहतुं कृणुष्व' 'वहतुः पथिके वृषभे पुमान्' इति मेदिनी । जीवेः । जीव प्राणधारणे । श्रातृकन् । 'जैवातृकः पुमान् सोमे कृषकायुष्म तोस्त्रिषु' इति मेदिनी । कृषिचमि । कृष विलेखने चमु श्रदने, तनु विस्तारे, धन धान्ये । रभसकोशस्थमाह । कर्षुः पुंसीत्यादि । 'कर्पूः पुमान् करीषानौ स्त्रियां कुल्याल्पखातयो:' इति मेदिनी । 'चमूः सेनाविशेष च सेनामात्रे च योषिति' इति मेदिनी । 'स्त्रियां मूर्तिस्तनुस्तनूः' इत्यमरः । 'सर्जूर्वणिजि विद्युति । स्त्रियां स्वर्गे विधौ रुद्रे' इति मेदिनी । 'खर्जूः कीटान्तरे वृत्तौ', 'खर्जूरीपा
1