SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १५८ ] सिद्धान्तकौमुदी। [ उणादिइदि नेट् । तन्तुः । गन्तुः। मस्तु दधिमण्डम् । सध्यत इति सक्तः । अर्धर्चादिः । 'ज्वरस्वर-' (सू २६५४) इत्यूत् । तत्र विस्तीत्यनुवर्तत इति मते तु बाहुलकात् । श्रोतुबिंडालः। धातुः । कोष्टा । ७० पः किञ्च । पिबतीति 'पितुर्वह्नौ दिवाकरे' । ७१ अर्तेश्च तुः । अर्तेस्तुः स्यात् स च कित् । 'ऋतुः सीपुष्पकालयोः' । ७२ कमिमनिजनिगाभायाहिभ्यश्च । एभ्यस्तुः स्यात् । 'कन्तुः कन्दर्पचित्तयोः' । मन्तुरपराधः । जन्तुः प्राणी । 'गातुः पुंस्कोकिने भृङ्गे गन्धर्व गायनेऽपि च । भातुरादित्यः । 'यातुरध्वगकालयोः' । रक्षसि क्रीबम् । हेतुः कारणम् । ७३ चायः किः । 'केतुर्ग्रहपातकयोः' । ७४ आप्नोतेह्रखश्च । स्यादित्यत आह तितुत्रेति नेडिति। अव रक्षण इत्यस्मात्तुनि आह ज्वरेत्वरे. त्यूठिति । अव तु इति स्थिते वकारस्य संप्रसारणे उकारे गुणे श्रोतुरिति रूपम् । मतान्तरे अाह बाहुलकादिति । क्रोष्टुशब्दात्सुप्रत्यये तृज्वत्कोष्टुः इत्यस्य प्रवृत्ते. राह क्रोष्टेति । पः किञ्च । पितुरिति । तुनः कित्त्वादित्त्वम् । अर्तेश्च तुः। ऋगतौ । तुनि प्रकृते तुविधानं स्वरार्थम् । कमिमनिजनि। कमु कान्तौ, मन ज्ञाने, जनी प्रादुर्भावे, गै शब्दे, भा दीप्तौ, या प्रापणे, हि गतौ, एषां द्वन्द्वात्पञ्चमी । एभ्यस्तुप्रत्ययः स्यात् । तन्तुः मन्तुः जन्तुः गातुः भातुः यातुः हेतुरिति । कन्तुरिति पूर्वोक्न 'अजिंदशि-' इत्यादिसूत्रेण कुप्रत्ययतुकोनिपातनात् सिद्ध पुनरुक्तिव्युत्पत्तिवैचिव्याय। चायः किः। चाय पूजानिशामनयोरिस्मात् तुप्रत्ययः, प्रकृतेः किरादेशश्व। गुणे केतुरिति रूपम् । आमोतेर्हखश्च । प्राप्ल व्याप्तावित्यस्मात् तुप्रत्ययः, इत्यमरः । 'सूत्राणि नरि तन्तवः' इत्यमरः । 'मण्डं दधिभवं मस्तु' इति च । 'धातुर्ना नेन्द्रिये त्रिषु । शब्दयोनिमहाभूततद्गुणेषु रसादिषु । मनःशिलादौ श्लेष्मादौ विशेषाद्रिकेऽस्थ्नि च' इति मेदिनी । 'श्लेष्मादिरसरक्लादिमहाभूतानि तद्गुणाः । इन्द्रियाण्यश्मविकृतिः शब्द. योनिश्च धातवः' इत्यमरः । पः किञ्च । पा पाने अस्मात्तुन् स च कित् । कित्त्वाद् 'धुमास्था-' इतीत्त्वम् । अर्तेश्च तु । ऋ गतौ । तुनि प्रकृते अन्तोदात्तार्थ तुः क्रियते । 'ऋतुना यज्ञं य ऋतुर्जनीनाम्' इत्यादि। 'ऋतुर्वर्षादिषट्सु च । श्रावे मासि च पुमान्' इति मेदिनी । 'ऋतुः स्त्रीकुसुमेऽपि च' इत्यमरः । कमिमनि । कमु कान्ती, मन ज्ञाने, जनी प्रादुर्भावे, गै शब्दे, भा दीप्तौ, या प्रापणे, हि गतौ च । कमिग्रहणं प्रपञ्चार्थम् । 'अर्जिशि-' इत्यादिना कुप्रत्यये तुकि सिद्धत्वात् । मन्तुरिति । मन्तुः पुंस्यपराधेऽपि मनुष्येऽपि प्रजापतौ' इति मेदिनी। गातुर्ना कोकिले मृत गन्धर्वे त्रिषु रोषणे' इति मेदिनी । 'भातुर्ना किरणे सूर्ये' इति मेदिनी। चायः किः । चाय पूजानिशामनयोः । अस्मात्तुर्धातोः किरादेशश्च । 'केतु रुक्पताका
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy