SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६७] बालमनोरमो तत्त्वबोधिनीसहिता [१५७ किंपूर्वस्य शृणातीष्टलोपः किमोऽन्त्यलोपः । किशोरोऽश्वशावः । सहोरः साधुः । ६६ कपिगडिगण्डिकटिपटिभ्यः कोलच् । कपीति निर्देशान्चलोपः। कपोलः । गडोलगण्डोलौ गुडकपर्यायौ । कटोलः कटुः । पटोलः। ६७ मीनातेरन् । मयूरः । ६८ स्यन्देः संप्रसारणं च । सिन्दूरम् । ६६ सितनिगमिमसिसच्यविधाक्रशिभ्यस्तुन् । सिनोतीति सेतुः । 'तितुत्र-' (सू ३१६३) स्याचित्रकण्ठे पारावतविहङ्गयोः' इति मेदिनी । भातेर्डवतुः। भातेरिति मा दीप्तावित्यस्य श्तिपा निर्देशः । भवानिति । सर्वनामशब्दोऽयम् । कठिचकिभ्यामोरन् । कठ कृच्छजीवने, चक तृप्तौ, प्राभ्यामोरन् प्रत्ययः स्यात् । कठोरः चकोर इति रूपम् । किशोरादयश्च । एते ओरन्प्रत्ययान्ता निपात्यन्ते। किंपूर्वस्येति । किंपूर्वस्य श हिंसायामिति धातोरोरन् । तस्मिन्परे शृणातः टिलोपः किंशब्दान्तस्य मकारस्य लोपश्च निगत्यत इत्यर्थः । सहोर इति । षह मर्षणे इत्यस्मान्निपातनम् । कपिगडि । कपि चलने, गड से वने, गडि वदनैकदेशे, कटे वर्षावरणयोः, पट गतौ, एषां द्वन्द्वात्पञ्चमी । एभ्यः कोलच्प्रत्ययो भवति । कपोलः गडोलः गएडोलः कटोलः पटोलः । ननु कपि चलन इत्यस्य इदित्त्वान्नुम्स्यादित्यत श्राह कपीति निर्देशादिति । कम्पीति निर्देशे कर्तव्ये नलोपकरणपूर्वकं निर्देशः नलोपविवक्षार्थ भवतीति भावः । मीनातेरूरन् । गुणे अयादेशे मयुर इति रूपम् । स्यन्देः संप्रसारणं च । स्यन्दू प्रस्रवण इत्यस्माद् ऊरन्प्रत्ययो भवति, प्रकृतिभूतस्य स्यन्दू इत्यस्य संप्रसारणं च भवति । सिन्दूरमिति रूपम् । सिन्दूरस्तरुभेदे स्यात् सिन्दूरं रक्तचूर्णके' इति मेदिनी । सितनिगमि । षिञ् बन्धने, तनु विस्तारे, गम्लु गतौ, मसी परिणामे, सच समवाये, श्रव रक्षणे, डु धा धारणपोषणयोः, क्रुश आक्रोशे, एषां द्वन्द्वात्पञ्चमी । एभ्यस्तुन्प्रत्ययो भवतीत्यर्थः । सेतुः । ननु इडागमः स्यात्तरुणावस्थसूर्ययोः' इति मेदिनी । कपिगडि । कपि चलने, गड सेचने, गडि वदनैकदेशे, कटे वर्षावरणयोः, पट गतौ । कपोल इति । केचित्तु सूत्रे कर्डि पठन्ति । कडि मदे । कण्डोलश्चरा डालः। 'चएडालिका तु कण्डोलवीणा चण्डालवल्लकी' इत्यमरः । पटोल इति । पटोल वस्त्रभेदे नोषधौ ज्योत्स्न्यां तु योषिति' इति मेदिनी । कल शब्दे । बाहुलकादतोऽप्योलच् । 'कल्लोलः पुंसि हर्षे स्यान्महत्सूमिषु वारिणः' इति मेदिनी । स्यन्देः । स्यन्दू प्रस्रवणे। 'सिन्दूरस्तरुभेदे स्यात्सिन्दूरं रक्तचूर्णके' इति मेदिनीविश्वप्रकाशौ । सितनि । षिञ् बन्धने, तनु विस्तारे, गम्लु गती, मसी परिणामे, षच सेचने, अव रक्षणादौ, डुधाञ् धारणपोषणयोः, कुश आक्रोशे । 'सेतुर्नालौ कुमारके' इति मेदिनी । 'सेतुराली स्त्रियां पुमान्'
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy