________________
प्रकरणम् ६७] बालमनोरमा-तत्त्वबोधिनीसाहिता। [१५५ निम्नमिति सलिलम् । कलिलम् । अनिलः । महिला । पृषोरादित्वान्महेलापि । भड इति सौत्रो धातुः । 'भडिलौ शूरसेवको'। भण्डिलो दूतः कल्याणं च । राण्डिलो मुनिः । पिरिडलो गणकः । सुरिडलो मुखरः । कोकिलः । भविलो भव्यः । बाहुलकारकुटिलः । ५५ कमेः पश्च । कपिलः । ५६ गुपादिभ्यः कित । गुपिलो राजा । तिजिलो निशाकरः । गुहिलं वनम् । ५७ मिथिलादयश्च । मध्यन्तेऽत्र रिपवो मिथिला नगरी । पथिलः, पथिकः । ५८ पतिकल्यनिमहि । षल गतौ, कलि संख्याने, अन प्राणने, मह पूजायाम् भडि परिभाषणे, मडि कल्याणे, शडि रुजायाम् , पिडि संघाते, तुडि तोडने, कुक आदाने, भू सत्तायाम् । सलिलमिति । सलतीति सलिलमिति । निम्नप्रदेशमिति शेषः । जलस्य निम्नगत्वादिति भावः । 'सलिलं कमलं जलम्' इत्यमरः । कलिलमिति । 'कलिलं गहनं समे' इत्यमरः । अनिलो वायुः । महिलेति । पूज्येत्यर्थः । ननु कथं महेलेति, इलचि महिला इत्यस्य साधनादित्यत आह पृषोदरादित्वादिति । इकारस्य गुण इति भावः । तथा च श्रीहर्षः 'परमहेलारतोऽप्यपारदारिकः' इति प्रायुक्त । परस्य महेला स्त्रो तस्यां रतोऽपि अपारदारिक इति विरोधाभासालङ्कारः। परमा उत्कृष्टा हेला क्रीडा तस्यां रत इति विरोधपरिहारः । कुट कौटिल्ये इत्यस्यानुपादानादाह बाहुलकादिति । कमेः पश्च । कमु कान्तावित्यस्माद् इलच् स्यात् , तत्संनियोगेन धातोः पकारः अन्तादेशो भवति । कपिल इति रूपम् । 'कपिला रेणुकायां च शिंशपागोविशेषयोः । पुण्डरीककरिगया स्त्री वर्णभेदे त्रिलिङ्गकम् ॥ नानले वासुदेवे च मुनिभेदे च कुक्कुरे।' इति मेदिनी । गुपादिभ्यः कित् । गुपू रक्षणे, तिज निशाने, गुह संवरणे, एभ्य इलच् , स च कित् । कित्त्वान लघूपधगुणः। सलिकलि । षल गती, कल संख्याने, अन प्राणने, मह पूजायाम् , भडि परि. भाषणे, भडि कल्याणे सुखे च, शडि रुजायाम् , पिडि संघाते, तुडि तोडने, कुक श्रादाने, भू सत्तायाम् , कुट कौटिल्ये । कलिल इति । मिश्रो गहनश्च । 'कलिलं गहनं सम' इत्यमरः । महिलेति । 'महिला फलिनीस्त्रियोः' इति मेदिनी । 'प्रियङ्गुः फलिनी फली' इत्यमरः । पृषोदरेति । तथा च दमयन्तीकाव्ये प्रयोगः 'परमहेलारतोऽप्यपरदारिकः' इति । परस्य महेला स्त्री, अथ च परमा उत्कृष्टा हेला क्रीडा तत्र रत इत्यर्थः । कमेः । कमु कान्तौ। अस्मादिलच् पश्चान्तादेशः। 'कपिला रेणुकायां च शिंशपागोविशेषयोः पुण्डरीककरिण्यां स्त्री वर्णभेदे त्रिलिङ्गकम् । ना नले वासुदेवे च कुक्कुरे' इति मेदिनी । रेणुकेह लताविशेषः । 'हरेणू रेणुका कुन्ती कपिला भस्मगन्धिनी' इत्यमरात् । गुपादिभ्यः। गुपू रक्षणे,