SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १५४] सिद्धान्तकौमुदी। [उणादि'चन्दिरौ चन्द्रहस्तिनौ' । तिमिरं तमोऽक्षिरोगश्च । मिहिरः सूर्यः । 'मुहिरः काम्यसभ्ययोः' । मुचिरो दाता । रुचिरम् । रुधिरम् । बधिरः । शुष शोषणे। शोषणे शुषिरं छिद्रम् । शुष्कमिस्यन्ये । ५२ अशेर्णित् । पाशिरो वह्निरतसोः । ५३ अजिरशिशिरशिथिलस्थिरस्फिरस्थविरखदिराः। मजे भावाभावः। अजिरमङ्गणम् । शशेरुपधाया इस्वम् । 'शिशिरं स्याहतोर्मेंदे तुषारे शीतले. ऽन्यवत्' । श्रथ मोचने, उपधाया इत्वं रेफेलोपः । प्रत्ययरेफस्य लस्वम् । शिथिल्लम्।ष्ठास्फाय्योष्टिलोपः। स्थिरं निश्चलम् । स्फिरं प्रभूतम् । तिष्ठतेवुक हस्वरवं च स्थविरः । खदिरः। बाहुलकाच्छीडो बुक् हस्वत्वं च । शिविरम् । ५४ सलिकल्यनिमहिभडिभण्डिशण्डिपिण्डितुण्डिकुकिभूभ्य इलच् । सलति गच्छति कित्त्वान्न लघूपधगुणः । अशेर्णित् । अश भोजन इत्यस्मात्किरच् स्यात् , स च णिद् भवति, णित्त्वादुपधावृद्धिः । आशिर इति रूपम् । अजिरशिशिर । प्रज गतिक्षेपणयोः, शश प्लुतगती, श्रथ मोचने, छा गतिनिवृत्तौ, स्फायी वृद्धौ, ष्ठा गतिनिवृत्ती, खद हिंसायाम् , एभ्यः किरचि कृते निपातनमिदम् । प्रथमतः अज गतिक्षपणयोरित्यस्मात् किरचि प्रकृतेर्वीभावाभावो निपात्यते । शिशिरमित्यत्राह शशेरुपधाया इति । शश प्लुतगतावित्यस्मात् किरचि उपधाभूतस्याकारस्य स्थाने इत्त्वं निपात्यते । शिशिर इति रूपम् । शिथिलशब्दे आह श्रथधातोः किरचि उपधाया इत्त्वमित्यादिना । प्रत्ययस्थस्य रेफस्य लत्वम् शिथिलमिति रूपम् । स्थिरस्फिरशब्दयोराह ष्ठास्फाय्योरिति । स्थविरशब्दे आह तिष्ठतेरिति । तिष्ठतेः किरचि तत्संनियोगेन धातोवुक् , आकारस्य ह्रस्वश्च निपात्यत इत्यर्थः । खदिरो वृक्षभेदः । शिबिरशब्दं साधयति शीङ इति । शीङ् स्वप्ने इत्यस्मात् किरचि प्रकृतेर्बुक् , ईकारस्य ह्रस्वत्वं च निपात्यते । शिमिरमिति रूपम् । सलिविवरं बिलम्' इत्यमरः । अशः । अश भोजने । अजिर। अज गती, शश प्लुतगतो, ष्ठा गतिनिवृत्ती, स्फायी वृद्धौ, खद हिंसायाम् । अजिरमिति । दशपादीवृत्तौ तु नपूर्वस्य जीर्यतेज्रवर्णलोपो निपात्यते इत्युक्तं तदपि ग्राह्यम् । 'श्राशु द्रुतमजिरं प्रत्नमीड्यम्' इत्यादौ न जीर्यतीत्यजिर इत्यस्यानुगुणत्वात् । अङ्गणमिति । अङ्गेल्युटि अनादेशः। नकारस्य बाहुलकाद् णत्वमित्येके । अन्ये तु दन्त्यमेवेच्छन्ति । 'अजिरं प्राङ्गणे काये विषये दरेऽनिले' इति मेदिनी। 'शिशिरो ना हिमे न स्त्री वृतुभेदे जडे त्रिषु' इति च । विश्वकोशस्थमाह । शिशिरं स्यादिति । खदिरो वृक्षभेदः । 'खदिरी शाकभेदे स्त्री ना चन्द्रे दन्तधावने' इति मेदिनी। शिबिरमिति । शेरतेऽस्मिन् राजबलानि, 'निवेशः शिबिरं शण्ढे' इत्यमरः।
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy