________________
प्रकरणम् ६७ ]
बालमनोरमा-तत्त्वबोधिनीसहिता । [ १५३
मृगभेदे स्याद्रौहिषं च तृणं मतम्' इति संसारावर्तः । ४८ तवेर्णिद्वा । तव इति सौत्रो धातुः । ' तविष-ताविषावन्धौ स्वर्गे च' । स्त्रियां तविषी ताविषी नदी देवकन्या भूमिश्च | 'तविषो बलम्' इति वेदभाष्यम् । ४६ नञि व्यथेः । 'अन्यथिषोऽब्धि सूर्ययोः । श्रव्यथिषी धराराज्योः । ५० किलेर्बुक्च । किल्विषम् । ५१ इषिमदिदिखिदिच्छदिभिदि मन्दिचन्दितिमिमेिहिमुहिमुचिरुचिरुबन्धिशुषिभ्यः किरच् । इषिरोऽग्नि । मदिरा सुरा । 'मुदिर: कामुकाअयो:' इति विश्वमेदिन्यौ । खिदिरश्चन्द्रः । 'छिदिरोऽसि कुठारयोः ' । भिदिरं वज्रम् । मन्दिरं गृहम् । स्त्रियामपि । 'मन्दिरं मन्दिरापि स्यात्' इति विश्वः ।
भवति प्रकृतेर्बृद्धिश्च । रौहिषमिति रूपम् । तवेशिद्वा । तवेति सौत्रो धातुः, श्रस्माट्टिषच्, स च णिद् विकल्पेन भवतीत्यर्थः । विपक्षे उपधावृद्धिः । तदभावे वृद्धभावः । नञि व्यथेः । नवि उपपदे व्यथधातोः टिषज् भवति । श्रव्यथिषः । टित्त्वात् स्त्रियां ङीप । अव्यथिषी । किलेर्बुक् च । किलधातोः टिषच् प्रकृतिभूतधातोर्बुगागमश्च किल्बिषमिति रूपम् । इषिमदि । इषु इच्छायाम्, मदी हर्षे, मुद हर्षे, खिद दैन्ये, छिदिर् द्वैधीकरणे, भिदिर् विदारणे, मदि स्तुत्यादौ चदि श्राहादे, तिमि भावे, मिह सेचने, मुह वैचित्ये, मुच्लृ मोक्षणे, रुच दीप्तौ रुधिर् आवरणे, बन्ध बन्धने, शुष शोषणे, एषां द्वन्द्वात्पञ्चमी । एभ्यः किरच् स्यात् । इषिर इति ।
"
इति संसारावर्तः । वेदभाष्यमिति । 'इन्द्रो वृत्रस्य तविषीम्' | 'इन्द्रस्यात्र विषीभ्यो विरप्शिन् इत्यादिमन्त्रेष्विति भावः । वैदिकनिघण्टौ ' श्रजः पाजः' इत्यादिषु बलनामसु तविषीशब्दस्य पाठवह मूलमिति बोध्यम् । 'तविषः शोभनाकारे बलेsब्धिव्यवसाययोः तविषी देवकन्यायां पुंसि स्वर्गे महोदधौ। ताविषी चन्द्रकन्याया ना स्वर्गाम्बुधिकाञ्चने' इति मेदिनी । नञि व्यथेः । व्यथ भयसंचलनयोः । किलेः । किल श्वैत्यश्रीडनयोः,अस्मादिषच् धातोर्वुगागमश्च । 'किल्विषं पापरोगयोः । अपराधेऽपि' इति मेदिनी । इषिमदि । इषु इच्छायाम, मदी हर्षे, मुद हर्षे खिद दैन्ये, छिदिर् द्वैधीकरणे, भिदिर् विदारणे, मन्दि स्तुत्यादौ चदि प्रह्लादने, तिम श्राभावे, मिह सेचने, मुह वैचित्ये, मुच्लृ मोक्षणे, रुच दीप्तौ, रुधिर् आवरणे, बन्ध बन्धने, शुष शोषणे । इषिरोऽग्निरिति । श्रहार इत्यन्ये । 'छिदिरः पावके रज्जौ करवाले परश्वधे' इति मेदिनी । 'मन्दिरं नगरेऽगारे क्लोबं ना मकरालये' इति मेदिनी । 'चन्दिरोऽनेकपे चन्द्रे' इति च । 'तिमिरं ध्वान्ते नेत्रामयान्तरे' इति । 'मिहिरः सूर्यबुद्धयो:' इति मेदिनी । 'मुहिरः कामिमूर्खयो:' इति च । 'सुन्दरं रुचिरं चारु' इत्यमरः । 'रुधिरोऽतारके पुंसि क्लीबं तु कुङ्कुमासृजो:' इति मेदिनी । बधिरः श्रोत्रेन्द्रियरहितः । ' शुषिरं