________________
प्रकरणम् ६७ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१५१ द१रौ । मुकुरो दर्पणः । बाहुलकान्मकुरोऽपि । 'दृ विदारणे' धातोद्विवचनमभ्यासस्य रुक्टिलोपश्च। 'दर्दुरस्तोयदे भेके वाद्यभाण्डाद्रिभेदयोः।' 'दर्दुरा चण्डिकायां स्याद् ग्रामजाले च दुर्दुरम् ।' इति विश्वः । ४१ मद्गुरादयश्च । उरजन्ता निपात्यन्ते । माद्यतेमुक् । मद्गुरो मस्यभेदः । 'कबृ वर्णे' रुमागमः । 'कर्बुर श्वेतरक्षसोः। बनातेः खजूरादिस्वादूरोऽपि । 'बन्धूरबन्धुरौ स्याता नम्र. भयसंचलनयोरित्यस्माद्धातोरुरच् स्यात् । स च कित् । धातोः संप्रसारणं चेत्यर्थः । विथुर इत्युदाहरणम् । न चात्र उरचः कित्त्वविधानेनैव प्रहिज्येति धातोः संप्रसारणे सिद्धे पृथक् संप्रसारणविधानं व्यर्थमिति वाच्यम् , अहिज्येति सूत्रे तवर्गचतुर्थान्तव्यध. धातोर्ग्रहणात् , अस्य च तवर्गद्वितीयान्तत्वेन तेनाप्राप्तेः । मुकुरदर्दुरौ। मकि मण्डने, दृ विदारणे इत्यनयोः मुकुर दर्दुर इति निपात्यते इत्यर्थः । आये उरच धातोरुपधाया उकारश्च निपात्यते । नन्वेवं कथं मकुर इति, अनेन निपातितस्य उपधाया उत्वस्य नित्यत्वादित्यत आह बाहुलकादिति । बाहुलकाद् उपधाया उत्त्वविकल्प इति भावः । दृधातोनिपातनमाह धातोद्विवचनमित्यादिना । दृधातोदित्वे गुणे अभ्यासस्योरदत्वे हलादिशेषे अभ्यासस्य रुक् टिलोपेन अरित्यास्यापहारे उरचि दर्दुर इति रूपमिति भावः दर्दुरशब्दार्थ विवृण्वन् कोशमाह दर्दुरस्तोयदे भेक इत्यादिना । केचितु दृधातोगुणो दुगागमश्च उरच्प्रत्ययसंनियोगेन निपात्यत इत्याहुः । मद्गुरादयश्च । मदी हर्षे, बन्ध बन्धने, कब वणे, इत्यादय उर. जन्ता निपात्यन्त इत्यर्थः । मदी हर्षे इत्यस्मादुरच् । तत्संनियोगेन गुगागमश्च निपात्यते । कब वर्ण इत्यस्मादुरच , तत्संनियोगेन रुमागमो विधीयते । मित्त्वादन्त्या. दचः परो भवति । बन्धुर इति । ननु बन्धूर इति कथमित्यत आह खजूराधान्तरूपमिति, तदपि स्थवीयः । कुरविधायकसूत्रे व्यथेरुपसंख्यानस्याप्रसिद्धत्वात् । तस्मादिह 'धः किच्च' इति दशपादीपाठ उपेक्ष्य एव । कथं तर्हि विधुर इति प्रयोगस्य निर्वाह इति चेत् । धुरो विगत इति प्रादिसमासेनेत्यवधेहि । 'समासान्ताः' इति सूत्रे वृत्तिपदमार्योस्तथैवोकत्वात् । इह व्यथेः किच्चेत्येवास्तु 'अहिज्या-' इत्यनेन संप्रसारणं स्यादवेति न भ्रमितव्यम्, अहिज्यादिषु व्यधिर्वर्गचतुर्थो न त्वयमिति निष्कर्षात् । मकुर इति । मकि मण्डने अस्मादुरच् नलोपश्च बाहुलकादिति धातोरुपधायाः पक्षे उकार इति भावः । 'मकुरो मुकुरोऽपि च' इति विश्वः । मकुरः स्यान्मुकुरवद्दर्पणे बकुलद्रुमे । कुलालदण्डे' इति मेदिनी । धातोद्विवचनमिति । केचित्तु गुणो दुगागमश्च निपात्यत इत्याहुः ग्रामजाले चेति । यामजाले चति पाठान्तरम् । मद्गुरादयश्च । मदी हर्षे । कर्बुरः। 'कर्बुर सलिले हेम्नि कचरः