SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १५० ] सिद्धान्तकौमुदी। [ उणादिविगु चित्तम् । लिगुर्मूर्खः । ३७ मृगय्वादयश्च । एते कुप्रत्ययान्ता निपास्यन्ते। मग यातीति मृगगयुयाधः । देवयुर्धार्मिकः । मित्रयुर्बोकयात्राभिज्ञः । प्राकृतिगणोऽयम् । ३८ मन्दिवाशिमथिचतिचङ्कयङ्किभ्य उरच्। मन्दुरा वाजि. शाला । वाशुरा रात्रिः। मथुरा । चतुरः । चङ्करो रथः । अङ्करः। खजूरादित्वादक्करोऽपि । ३६ व्यथेः संप्रसारणं किश्च । 'विथुरश्चोररक्षसोः।' ४० मुकुरइति मेदिनी । मृगय्वादयश्च। मृगयु इत्यादयः शब्दाः कुप्रत्ययान्ता निपात्यन्ते । भृगयुः देवयुः इत्यादय उदाहरणम् । प्राकृतिगण इति । तेनं पीलुपाण्डुरित्यादिसिद्धिः । मन्दिवाशि। मदि स्तुत्यादौ, वाच शब्दे, मन्थ विलोडने, चते याचने, चक इति सौत्रो घातुः, अकि लक्षणे, एभ्य उरच् स्यात् । मन्दुरा। 'वाजिशाला तु मन्दुरा' इत्यमरः । वाशुरोति। 'वाशुरा वाशितारात्र्योः' इति मेदिनी । चकुर इति । 'चङ्कुरः स्यन्दने वृजे' इति मेदिनी। ननु अङ्कर इति कथम् , अनेनोर. प्रत्यये अङ्कुरशब्दस्यैव साधुत्वादित्याशङ्कायामाह खजूरादित्वादिति । तेन ऊरप्रत्यये अङ्करशब्दोऽपि साधुरेवेति भावः । व्यथेः संप्रसारणं किश्च । व्यथ दीर्घश्व पाक्षिको निपात्यते इत्याहुः । 'लिगु चित्त नपुंसकम्' इति वररुचिः । मृगय्वादयश्च । 'मृगयुः पुंसि गोमायौ व्याधे च परमेष्ठिनि' इति मेदिनी। 'मृगयुर्ब्रह्मणि ख्यातो गोमायुव्याधयोरपि' इति विश्वः । 'देवयुर्वाच्यलिङ्गः स्याद्धार्मिके लोकयात्रिके' इति मेदिनी। प्राकृतिगण इति । तेन पील प्रतिष्टम्भे अस्मात्कुः । 'पोलुजे द्रुमे काण्डे परमाणुप्रसूनयोः' इति विश्वः । भाट्टास्तु पीलुशब्दस्य वृक्ष आर्यप्रसिद्धिजे तु म्लेच्छप्रसिद्धिरित्याश्रित्य व्यवजह्नः । पडि गतौ अस्मात्कुः धातोवृद्धिश्च । पाण्डुः । कडि मदे कण्डुरित्यादि बोध्यम् । मन्दिवाशि। भदि स्तुत्यादौ, वाच शब्दे, मथे विलोडने, चते याचने, व इति सौत्रो धातुः। अकि लक्षणे । वाशुरा रात्रिरिति । वाश्यन्ते अस्यामिति विग्रहः । वाशुरो गर्दभ इत्यन्ये । 'वाशुरा वाशितारात्र्योः' इति मेदिनीहेमचन्द्रौ । चङ्कुर इति । 'चकुरः स्यन्दने वृक्षे' इति मेदिनी 'अङ्कुरो रुधिरे लोनि पानीयेऽभिनवोद्भिदि' इति च । खजूरादित्वादिति । ऊरप्रत्ययोऽपीति भावः। 'अङ्कुरोऽङ्कर एव च' इति विश्वप्रकाशः । व्यथेः । व्यथ भयसंचलनयोरस्मादुरच कित्स्याद्धातोः संप्रसारणं च । दशपाशं तु 'व्यथेः संपारणं धः किच्छ इति सूत्रं पठित्वा धकारमन्तादेशं विधाय विधुरोऽनग्निक इत्युदाहृतम् । माधवप्रसादकारादिभिरपि तदेवानुसृतं नत्वेतद्युक्तम् । 'त्वमेषां विथुरा शवासि' 'अथ विद्धा विथुरेणाचिदना' इत्यादिमन्त्रेषु थकारपाठस्य निर्विवादत्वात् । यदपि माधवेनोक्तं विदिभिदिच्छिदिरित्यत्र 'व्ययः संप्रसारणं च' इति वचनात्कुरचि
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy