________________
प्रकरणम् ६७ ] बालमनोरमा तत्त्वबोधिनीसहिता। [१४६ डित् । हरिभिद्रूयते हरिदुर्वृतः। मितं द्रवति मितद्रुः समुद्रः । ३५ शते च । शतधा द्रवति शतद्रुः । बाहुल कास्केवलादपि । द्रवस्यूमिति दुर्वृक्षः शाखा च । तद्वान्द्रमः। ३६ खरुशकुपीयुनीलडालिगु । पौते कुप्रत्ययान्ता निपास्यन्ते । खनते रेफश्चान्तादेशः। खरुः कामः करो मूर्योऽश्वश्च । 'शङ्कनों कीलशल्ययोः ।' पिबतेरीवं युगागमश्च । पीयुर्वायसः कालः सुवर्ण च । निपू. वामगि गतावस्मारकुनैर्दीर्घश्च । नीलङ्गः कृमिविशेषः शृगालश्च । नीलाङ्गः इति पाठान्तरम् । तत्र धातोरपि दीर्घः । लग सङ्गे, अस्य प्रत इत्वं च । लगतीति पशुरित्यत्र व्युत्पत्तिमाह पृषोदरादित्वादिति । हरिमितयो वः । छ गता. वित्यस्माद्धातोहरिमितयोरुपपदयोः कुप्रत्ययः स्यात् , स च डिद्भवति। हरिद्ररिति। कुप्रत्ययः, डित्त्वात् टिलोपः । मितदुरिति चेत्थमेव रूपम् । शते च। शतशब्दे चोपपदे दु गतावित्यस्माद्धातोः कुप्रत्ययो भवति, स च डिदिति सूत्रार्थः । टिलोपः। दुरित्यत्र कथं कुप्रत्ययः, केवलात्कुप्रत्ययविधेः कुत्राप्यदृष्टत्वादित्यत आह बाहुल का. दिति । तद्वानिति । युद्रुभ्यां म इति मत्वर्थीयो मप्रत्ययः। खरुशकुपीय. नीलगुलिगु । खनु अवदारणे, शकि शङ्कायाम् , पा पाने, निपूर्वः लगि गतौ, लगे सङ्गे, इत्येतेभ्यः पञ्चभ्यो धातुभ्यः कुप्रत्यये एते निपात्यन्ते। निपातनमेवाह खनते रेफश्चान्तादेश इति । नकारस्य रेफे आदेशे खरुरिति रूपम् । खरुरित्यस्यार्थ विवृणोति काम इत्यादिना । खरुः पतिवरा कन्येत्यपि बोध्यम् । शङ्कुशब्दं कोशपूर्वकं विवृणोति शकुर्नेति । 'शकुः कीले गरे शस्त्रे संख्यापादपभेदयोः । यादोभेदे च पापे च स्थाणावपि च दृश्यते ॥ इति विश्वः। पीयुरिति । ईत्त्वं युगागमश्च निपात्यते । नीलगुरिति । 'नीलगुः स्यात् कृमौ पुंसि भम्भराल्यां तु योषिति' गतो, अस्माद्धरिमितयोरुपपदयोः कुः स्यात्स च डित् । हरिदुर्वृत इति । दारुहरिद्रा इत्येके। शतद्रुर्नदीभेदः शतगुस्तु शुतुद्रिः स्यात्' इत्यमरः। तद्वानिति । 'शुद्रुभ्यो मः'। खरुशकु । खनु अवदारणे, शकि शङ्कायाम् । काम इत्यादि । खरुः पतिंवरा कन्येत्यपि बोध्यम् । 'खरुदै हरे दैत्ये हये श्वेते तु वाच्यवत्' इति विश्वत्रिकाण्डशेषो। शङ्कते अस्मादिति शकुः । 'शकुः कीले गरे शस्त्रे संख्यापादपभेदयोः। यादोभेदे च पापे च स्थाणावपि च दृश्यते' इति विश्वः । पीयुरिति । 'पीयुः काले रवी घोरे' इति मेदिनी। क्रिमिविशेष इति । 'नीलगुः क्रिमिजातो स्याभृम्भरालीप्रसूनयोः' इति विश्वः । 'नीलगुः स्यात्कृमौ पुंसि भम्भराल्यां तु योषिति' इति मेदिनीकारः । पाठान्तरमिति । 'नीलगुरपि नीलागुः' इति विश्वः । धातोरपीति । केचित्तु नीलशब्दे उपपदे गमेष्टिलोप उपपदस्य मुम्