SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १४८ ] सिद्धान्तकौमुदी । [ उणादि संप्रसारणम्, भ्रस्जे-सलोपश्च । पृथुः । मृदुः । न्यङ्कादित्वात्कुत्वम् । भृज्जवि तपसा भृगुः । २६ लङ्घिबह्योर्नलोपश्च । लघुः । 'वालमूललग्न लमङ्गलीनां वा लो रस्वमापद्यते' ( वा ४७६८ ) । रघुर्नृपभेदः । बहुः । ३० ऊर्णोतेर्नुलोश्च । ऊह सक्थि । ३१ महति ह्रस्वश्च । उरु महत् । ३२ श्लिषेः कश्च । श्लिष्यतीति चिकुभ्रंस्यः, उच्चतो ज्योतिश्च । ३३ श्राङ्परयोः खनिशुभ्यां डिश्च । माखनतीत्याखुः । परं शृणातीति परशुः । पृषोदरादिस्वादकारलोपात्पर्शुरपि । ३४ हरिमितयोद्भुवः । 'नु गतौ' अस्माद् हरिमेतयोरुपपदयोः कुः, स च संप्रसारणे पृथुरिति रूपम् । भृगुरित्यत्र कुत्वं समर्थयते न्यङ्क्वादित्वादिति । लङ्घिबह्योर्नलोपश्च । लघि गतौ, बहि वृद्धौ, भ्यां कुप्रत्ययः स्यात्, नकारलोपश्च । लघु बहु इति रूपम् । लघु इत्यत्र विशेषमाह वालमूललघ्वलमङ्गुलीनां वा लो रत्वमापद्यते । ल इति षष्ठ्यन्तम् । एतदवयवस्य लकारस्य रत्वं वा श्श्रापद्यत इत्यर्थः। एवं च रघुः इति रूपम् । ऊर्णोतेर्नुलोपश्च । ऊर्णुञ्धातोः कुप्रत्ययः स्यात् तत्संनियोगेन नुकारस्य लोपश्च । ऊरु इति रूपम् । महति ह्रस्वश्च । महति विशेष्ये हखश्च भवति । उरु इति रूपम् । श्लिषेः कश्च । श्लिष श्रालिङ्गन इत्यस्मात् कुप्रत्ययः, कश्चान्तादेशः । श्लिकुर्भृत्य इति । षस्य कत्वे रूपम् । श्लिकुरित्यस्यार्थान्तरमाह उद्यतो ज्योतिश्चेति । श्राङ्परयोः । श्राङ्पराभ्यां खनु अवदारणे, शू हिंसायाम्, आभ्यां कुप्रत्ययः, स च डिद्भवति । डित्त्वाट्टिलोपः । श्राखुरिति । श्राखनतीति । भूमिमिति शेषः । परं शृणातीति । शत्रुं हिनस्तीत्यर्थः । स्यान्महति त्रिषु । त्वक्पत्र्यं कृष्णजीरेऽथ पुमानमौ नृपान्तरे' इति मेदिनी । श्रदितुं शक्यतेऽकठिनत्वादिति मृदुः कोमलः 'भृगुः शुक्रे प्रपाते च जमदग्नौ पिनाकिनि ' इति विश्वः । लङ्घ्रि । लघि लाघि गतौ, बहि महि वृद्धौ । लघुरिति । 'पृक्कायां स्त्री लघुः क्लीवं शीघ्र कृष्णा गुरुण्यपि ' इति त्रिकाण्डशेषः । ' लघुरगुरौ च मनोज्ञे निःसारे वाच्यवत्क्लीषम् । शीघ्रे कृष्णागुरुणि च पृक्कानामौषधौ स्त्रियाम्' इति मेदिनी । नृपभेद इति । एतेन 'अवेक्ष्य धतोर्गमनार्थमर्थविच्चकार नाम्ना रघुमात्मसंभवम्' इति कालिदासवचनं व्याख्यातम् । बहुरिति । 'बहुः स्यात्त्र्यादिसंख्यासु विपुले त्वभिधेयवत्' इति मेदिनी । ऊरुरिति । 'सक्थि क्लीबे पुमानूरुः' इत्यमरः । ऊर्णूयते श्रच्छद्यते इत्यूरुः । कर्मणि प्रत्ययः । उरु महदिति । कर्तरि प्रत्ययः । लिषेः । श्लिष श्रालिङ्गने अस्मात्कुप्रत्ययः कश्चान्तादेशः । उद्यत इति । स हि यावत्कार्यं श्लिष्यति लगति व्याप्रियत इति यावत् । श्राङ्परयोः । खनु अवदारणे, शृ हिंसायाम् । पर्शुरपीति । 'पर्शुः परशुना सह' इति विश्वः । हरिमितेति । दु
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy