________________
प्रकरणम् ६७ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१४७ सुषु स्थः। 'सुषामादिषु च' (सू १०२२) इति षत्वम् । अपष्ठु प्रतिकूलम् । दुःष्टु । सुष्टु । २६ रपेरिशोपधायाः । अनिष्टं रपतीति रिपुः । २७ अर्जिदृशिकम्यमिपशिबाधामृजिपशितुगधुग्दीर्घहकाराश्च । मर्जयति गुणानृजुः । सर्वानविशेषेण पश्यतीति पशुः । कन्तुः कन्दर्पः । अन्धुः कूपः । 'पाशुर्ना न इयो रजः ।' 'तानन्या भपि दन्त्याच सम्बसूकरपांसवः।' बाधत इति बाहुः । 'बाहुः स्त्रीपुंसयोर्भुजः ॥ २८ प्रथिम्रदिभ्रस्जां संप्रसारणं सलोपश्च । त्रयाणां कु: उकारः अन्तादेशश्च रपरः । कुरुः, गुरुरिति रूपम् । अपदुस्सुषु स्थः । अप, दुस् , सु एषु उपपदेषु स्थाधातोः कुप्रत्ययः स्यात् । श्रातो लोपे अपष्ठु दुःष्ठु सुष्ठु इत्यादिरूपम् । रपेरिञ्चोपधायाः। रपधातोः कुप्रत्ययः स्यात् , उपधाया इकारादेशश्च । अर्जिशि । अर्ज अर्जने, दृशिर् प्रेक्षणे, कमु कान्तौ, अम गत्यादिषु, पशि नाशने सौत्रोऽयं धातुः, बाधु लोडने, एषां षण्णां द्वन्द्वात् षष्ठी । एभ्यः कुप्रत्ययः स्यात् तत्संनियोगेन प्रकृतिभूतानां षण्णामादीनां मध्ये अर्जिदृश्योः ऋज पश एतौ सर्वादेशी, कमेस्तुगागमः, अमेधुंगागमः। पशिरिदित्। इदित्त्वान्नुम् । दीर्घोऽनेन विधीयते । बाधधातोरन्त्यस्य हकारादेशः । एकापि षष्ठी विषयभेदाद्भिद्यत इत्युकृत्वात् षष्ठ्या आदेशागमयोरन्वयः । कन्तुर्मदनः । प्रथिम्रदिभ्रस्जाम् । प्रथ प्रख्याने, म्रद मदने, भ्रस्ज पाके, एभ्यः कुप्रत्ययः स्यात् संप्रसारणं च । भ्रस्जधात्ववयवसकारस्य लोपश्चेत्यर्थः । सलोप इत्यन्यत्रासंभवाद् भ्रस्जधातावेवान्वेति । प्रथधातोः कुप्रत्यये इति मेदिनी । अपदुःसु । ष्ठा गतिनिवृत्तौ । सुषामेत्यादि । एतच्च न्यासाद्यनुरोधेनोक्तम् । वार्तिककृता तु स्थास्थिन्स्थूणामित्युपसंख्यातम् । 'अपष्ठः पुंसि बाले च वामे स्यादन्यलिङ्गकः' इति मेदिनी । वामे प्रतिकूले । एषां त्रयाणां मृगय्वादिपाठेन सिद्धत्वात्सूत्रमिदं न्यासकारस्य न संमतमिति रक्षितः। अजिशि । अर्ज अर्जने अस्य ऋजिरादेशः, दृशेः पशिरादेशः, कमेस्तुगगमः, अम रोगे गत्यादौ वा, अस्य धुगागमः । पशि नाशने सौत्रो धातुरस्य दीर्घः । बाधृ लोडने अस्य हादेशः। षड्भ्योऽपि कुप्रत्ययः स्यादित्यर्थः । अविशेषणेति । चादिगण पश्चिति पठितम् । 'पशु दृश्यर्थमव्यययम्' इति वरणिः । कन्तुः कन्दर्पः । 'इ: कन्तुर्मकराङ्कः' इति त्रिकाण्डशेषः । पांशुरिति । पडि पशि नाशने चुरादिरान्तिः । स्त्रीपुंसयो. रिति । उकं घमरेण 'द्वौ परौ द्वयोः । भुजाबाहू' इति । परौ द्वौ भुजबाहुशब्दौ द्वयोः स्त्रीपुंसयोरिति तदर्थः । अकारान्तोऽप्ययम् । अतएव 'वादोऽश्वभुजयोः पुमान्' इति दामोदरः । बाहा भुजे पुमान्मानभेदाश्ववृषवायुषु' इति मेदिन्यां टाबन्तोऽप्ययम् । प्रथिम्रदि । प्रथ प्रख्याने, म्रद मर्दने, भ्रस्ज पाकै । प्रथते इति पृथुः । 'पृथुः