________________
प्रकरणम् ६७] बालमनोरमा-तत्त्वबोधिनीसहिता। [१४५ फलेमुक् फल्गुः । पाटेः पटिः। पाटयतीति पटुः। नम्यतेऽनेन नाकुल्मीकम् । मन्यत इति मधु । जायत हति जतु । १६ वलेगुक्च । 'वल संवरणे' वल्गुः। २० शः कित्सन्वच्च । श्यतेरुः स्यात् , स च कित् सन्वच्छ । शिशुर्बालः । २१ योद्वे च। निष्पत्ती, पट गतौ, ण्यन्तस्यात्र पाटीति ग्रहणम् , णम प्रत्वे शब्दे, मन ज्ञाने, जनी प्रादुर्भाव, एषां द्वन्द्वात्षष्ठी । एभ्य उप्रत्ययो भवति । जनामिति षष्ठी उत्तरत्र विधीयमानगुगाद्यपेक्षया । गुगित्यागमः कित्त्वाल्लिङ्गात् । इतरे आदेशाः। अत्र एकापि षष्ठी विषयभेदाद्भिद्यत इति गुगपेक्षया अवयवषष्ठी, इतरादेशान्प्रति तु स्थानषष्ठीति बोध्यम् । वस्तुतस्तु अनागमानां सागमका आदेशा इति पक्षस्यापि परिभाषेन्दुशेखरादौ दर्शनात् स्थानषष्ठ्यपि सम्यगेव । फलधातोरुप्रत्यये गुगागमेऽन्तावयवे कृते फल्गु इति रूपम्। पाटेरुप्रत्यये प्रकृतिभूतपाटेः पटिः आदेशः। इकारः 'इश्तिपौ धातुनिर्देश' इत्युक्तरीत्या बोध्यः । पटुरिति रूपम् । नाकुर्वल्मीकमिति । नमधातो - किरादेशः। 'वामलूरश्च नाकुश्च वल्मीकं पुनपुंसकम्' इत्यमरः। मध्विति । मन्धातो. रुप्रत्यये धकारेऽन्तादेशे रूपम् । जत्विति । जनधातोरुप्रत्यये नकारस्य तकारः अन्तादेशः। चलेगु च । वल संवरण इत्यस्माद्धातोः उप्रत्ययो भवति, तत्संनियोगेन प्रकृते. गुंगागमश्च । वल्गु इति रूपम् । अत्र केचिद् बल्गु इति पठन्ति, तत् 'तद्वल्गुना युगपदुन्मिषितेन तावत्' इत्यादिलक्ष्यविरोधादुपेक्ष्यम् । शः कित्सन्वश्च । शो तनूकरणे इत्यस्मादुप्रत्ययः, स च कित् , सन्वच्च भवति । शिशुरिति । शो इत्यस्मादुप्रत्यये तस्य कित्त्वाद् ‘आदेच' इत्यात्वे तस्य द्वित्वे 'सन्यतः' इत्यभ्यासस्येत्त्वे 'आतो लोप इटि च' इत्यालोपः। तस्याजादावार्धधातुकक्लिति विधानात् । तथाच यवषष्ठी पठ्याद्यादेशचतुष्टयविधौ तु पाव्यादिभ्यः स्थानषष्ठी सापि धतयोविधौ अन्तेऽप्युपसंहियत इति विवेकः । अनागमकानां सागमका आदेशा इति पक्षे तु स्थानषष्ठयेवेति बोध्यम् । ‘फलवसारेऽभिधेयवत् । नदीभेदे मलवा स्त्री' इति मेदिनी। नाकुर्वल्मीकमिति । 'वामलूरश्च नाकुश्च वल्मीकं पुनपुंसकम्' इत्यमरः । मध्विति । मधुश्चैत्रे च दैत्ये च मये पुष्परसे मधु' इति हट्टचन्द्रः । 'मकरन्दस्य मद्यस्य माक्षिकस्यापि वाचकः । अर्धर्चादिगणे पाठात्पुनपुंसकयोमधुः' इति शाश्वतः। वले। वल संवरण इति दन्त्योष्ठयादिः । 'वल्गुः स्याच्छगले पुंसि सुन्दरे चाभिधेयवत्' इति मेदिनी । यनु उज्ज्वलदत्तेन 'बले गुक् च' इति श्रोष्ठयादि पठित्वा बल प्राणने इत्युपन्यस्तं तल्लक्ष्यविरोधादुपेक्ष्यम् । 'आयं नाभावदति वल्गुवो गृहे' इत्यादौ दन्त्योष्ठयपाठस्य निर्विवादत्वात् । शः कित् । शो तनूकरणे अस्मादुप्रत्ययः, 'आदेच उपदेशे-' इत्यात्वं द्वित्वं 'सन्यतः' इत्यभ्यासस्येत्वम् । 'आतो लोप इटि च' इत्याकार