________________
प्रकरणम् ६७] बालमनोरमा-तत्त्वबोधिनीसहिता [१४३ वाच्येऽण उप्रत्ययः स्यात्, स च नित् । नित्त्वादाद्युदात्तः। 'प्रियङ्गवश्च मेऽणवश्व मे।' 'बीहिभेदस्वणुः पुमान् । निद्ग्रहणं 'फलिपाटि-' इत्यादिसूत्रमभिव्याप्य संबध्यते । १० शृस्वृस्निहित्रप्यसिवसिहानक्लिदिबन्धिमनिभ्यश्च । शृणातीति शरुः । शरुरायुधकोपयोः। स्वरुवंब्रम् । स्नेहुाधिः । चन्द्र इत्यन्ये । त्रपु सीसम् । 'पुंसि भूम्न्यसवः प्राणाः ।' 'वसुर्हदेऽनौ योक्त्रंऽशौ वसु तोये धने मणौ' । हनुर्वक्त्रैकदेशः । वेदुश्चन्द्रः । बन्धुः । मनुः । चाद् "बिदि अवयवे' बिन्दुः । ११ स्यन्देः संप्रसारणं धश्च । 'देशे नदविशेषेऽन्धौ सिन्धुर्ना सरिति स्त्रियाम्' इत्यमरः । १२ उन्देरिश्चादेः। उनत्ति इन्दुः । १३ ईषेः इत्यनुवर्तते, उरिति च । अणधातोर्धान्यरूपेऽर्थे उप्रत्ययः स च निद् भवतीत्यर्थः । नित्त्वप्रयोजनमाह आद्युदात्त इति । अभिव्याप्येति । तस्मिन्नपि सूत्रेऽनुवर्तत इत्यर्थः । शृस्वृस्निहि । शृ हिंसायाम् , स् शब्दोपतापयोः, स्निह उपतापे, त्रपूष् लज्जायाम् , असु क्षेपणे, वस निवासे, हन हिंसागयोः, क्लिदू आर्दीभावे, बन्ध बन्धने, मन ज्ञाने, एषां द्वन्द्वात्पञ्चमी । उरित्यनुवर्तते । त्रपु सीसमिति । तद्धि अग्नि दृष्ट्वा त्रपते लज्जत इव । स्यन्देः । स्यन्दू प्रस्रवण इत्यस्माद् उप्रत्ययः स्यात् , संप्रसारणं यकारस्य भवति, दकारस्य धकारश्च भवति । उन्देरिच्चादेः। उनत्ति क्लेदयति विरहिण इति इन्दुः। उप्रत्ययो भवति, आदेरुकारस्य इकारश्च भवति । कटुः । 'कटुः स्त्री कटुरोहिण्यां लताराजिकयोरपि । नपुंसकमकार्ये स्यात्पुंल्लिङ्गो रसमात्रके । त्रिषु तद्वत्सुगन्ध्योश्च मत्सरेऽपि खुरेऽपि च' इति मेदिनी । वटुरिति वटतीति वटुः । 'वटुर्द्विजसुतः स्मृतः' इति संसारावर्तः । नटवटुरिति तपचारात् । अभिव्याप्येति । यद्यपि 'फलिपाटि-' इति सूत्रं यावदनुवर्तत इति न्यासग्रन्थन मर्यादीकृयेत्यपि प्रतीयते तथाप्यभिव्याप्येयेवोचितम् । 'पिबतं सोम्यं मधु' इत्यादौ मधुशब्दस्यायुदात्ततादर्शनात् । 'वोतो गुणवचनात्' इति सूत्रे हरदत्तेनाप्यभिव्याप्येति स्पष्टमभिधानाचेति भावः । शृस्वृस्निहि । शू हिंसायाम् , स्व शब्दोपतापयोः, निह उपतापे, पूष लजायाम् , असु क्षेपणे, वस निवासे, हन हिंसागत्योः, क्लिदू आर्दीभावे, बन्ध बन्धने, मन ज्ञाने । शरुरिति । 'शरुः कोपे शरे वजे' इति हेमचन्द्रः । स्वर्वजमिति । 'शतकोटिः स्वरुः शम्ब.' इत्यमरः । त्रपु सीसमिति। तद्धि अग्निं दृष्ट्वा त्रपते लजत इव । 'रङ्गसीसकयोस्त्रपु' इति मेदिनी। अस्यन्ति क्षिपन्ति शरीरमित्यसवः प्राणाः । हनुरिति । 'हनुः पुमान्परो गण्डात्' इति वररुचिकोशः स्त्रीलिमोऽप्ययम् । 'हनुहट्टविलासिन्यां नृत्यारम्भे गदे स्त्रियाम् । द्वयोः कपोलावयवे' इति मेदिनीकोशः । अतिशायने मतुप् । हनुमान् । 'अन्येषामपि