________________
१४२]
सिद्धान्तकौमुदी। [ उणादिवा भरुः, स्वामी हरश्च । म्रियन्तेऽस्मिन्भूतानि मरुनिर्जलदेशः। शेते शयुः अजगरः। तस्य॒क्षः। चरन्ति भक्षयन्ति देवता इममिति चरुः । सरुः खड्गादिमुष्टिः। तनु स्वल्पम् । तन्यते कर्मपाशोऽनया इति तनुः, शरीरं च । 'स्त्रियां मूर्तिनुस्खनूः ।' धनुः शस्त्रविशेषः । 'धनुना च धनुर्विदुः ।' 'धनुरिवाजनि वक्रः' इति श्रीहर्षः । मयुः किन्नरः । 'मद्गुः पानीयकाकिका' इति रभसः । न्यवादिवारकुस्वम् , जश्वेन सस्य दः।८ प्रणश्च । 'लवलेशकणाणवः।' चास्कटिवटिभ्याम् । कटति रसनां कटुः। वटति वदतीति वटुः। ६ धान्ये नित् । धान्ये तरणयोः, चर गतौ, त्सर छद्मगतौ, तनु विस्तारे, धन धान्ये, डु मिञ् प्रक्षेपणे, टु मस्जो शुद्धौ एषां द्वन्द्वात्पञ्चमी। एभ्य उः प्रत्ययः स्यात् । उणि प्रकृते उविधानं वृद्धयभावार्थम् । भृग्धातोरुप्रत्यये उदाहरति भरुरिति । स्वामी हरश्चेति । 'भरुः वर्णे हरे पुंसि' इति कोशादिति भावः। शयुरिति । अजगरे शयुरित्यमरादाह शयुरजगर इति । अणश्च । अण् शब्दे इत्यस्मादुप्रत्ययः स्यात् । अणुः । चकारप्रयोजनमाह चादिति। कटे वर्षादौ, वटे वेष्टने, प्राभ्यामपि उप्रत्ययो भवतीत्यर्थः । वटुरिति । 'वटुर्द्विजसुतः स्मृतः' इति मेदिनी। धान्ये नित् । अण तनु विस्तारे, धन धान्ये, डुमिञ् प्रक्षेपणे, टुमस्जो शुद्धौ । भरुरिति । 'भरुः स्वर्णे हरे पुंसि' इति मेदिनी। 'भर्भर्तृकनकयोः' इति हेमचन्द्रः । शयुरिति । 'अजगरे शयुहिसः, इत्युभी' इत्यमरः। तरुरिति । तरन्ति नरकमनेन रोपकाः । चरुरिति । अनवस्रावितान्तरूष्मपक्क श्रोदन इति याज्ञिकाः । तृवृच्चधिकरणऽप्येवमुक्तम् । 'उगवादिभ्यो यत्' इति सूत्रे कैयटस्त्वाह-स्थालीवाची चरुशब्दस्तास्थ्यादोदने भाक्त इति । 'तनुः काये त्वचि स्त्री स्यात्रिज्वल्पे विरले कृशे' इति मेदिनी। धनुः पुमान् प्रियालदौ राशिभेदे शरासने' इति नान्ते मेदिनी । विश्वप्रकाशमुदाहरति धनुषा चेत्यादि । धनुषा साध धनुं विदुरित्यर्थः । 'स्यात्तनुस्तनुषा सार्धम्' इत्यतः सार्धमित्यनुषज्यते । 'शुद्धवंशजनितोऽपि गुणस्य स्थानतामनुभवन्नपि शकः । क्षप्तुरेनमजुमाशु सपक्षं सायकम्' इति श्रीहर्षश्लोकशेषः । 'धनुर्वशविशुद्धोऽपि निर्गुणः किं करिष्यति' इति धन्वन्तरिः । इह पूर्वत्र च धनुरिति उकारान्तः सकारान्तो वा बोध्यः । न च सकारान्तधनुःशब्दो नपुंसक एवेति शवयम् , 'अथास्त्रियां धनुश्चापौ' इत्यमरोक्त्या तस्यापि पुंस्त्वात् । किंनर इति । 'तुरंगवदनो मयुः' इत्यमरः । 'मीनातिमिनोति-' इत्यात्वं तु नेह, बाहुलकात् । 'मयुस्तुरंगवदने मृगेऽपि मयुरिष्यते' इति विश्वः । मजति पानीये इति मद्गुः । अणश्च । अण शब्दे अस्मादुप्रत्ययः स्यात् । चादिति । कटे वर्षादौ, वट वेष्टने । कटति रसनामिति