SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६७ ] बालमनोरमा-तत्वबोधिनीसहिता । [ १४१ वध्योश्च' ( सू २५१२ ) इति न निषेधः । अनुबन्धद्वय सामर्थ्यात् । चारु रम्यम् । चाटु प्रियं वाक्यम् । मृगय्त्रादित्वात्कुप्रत्यये 'चटु' इत्यपि । ४ किञ्जरयोः श्रिणः । किं शृणातीति किशारु, सस्यशूकं वाणश्च । जरामेति जरायुः गर्भाशयः । गर्भाशयो जरायुः स्यात् ' । ५ त्रो रश्च लः । तरन्त्यनेन वर्णा इति तालु । ६ कृके वचः कश्च । कृकेन गलेन वक्तीति कृकवाकुः । 'कृकवाकुर्मयूरे च सरटे चरणायुधे' इति विश्वः । ७ भृमृशीतृचरित्सरितनिधनिमिमस्जिभ्य उः । भरत बिभर्ति णित कृति चेत्यर्थन वृद्धिनिषेधादित्याशङ्कयाद अनुबन्धद्वयसामर्थ्यादिति । एकैनेवानुबन्धेनान्यत्र वृद्धौ अत्र निषेधे च सिद्धे द्व्यनुबन्धकरणम् अत्रापि वृद्धिर्भवितव्येति ज्ञापनार्थमिति बोध्यम् । चरधातोर्गुणि उपधावृद्धौ चारु इति रूपम् । नपुंसकलिङ्गोऽयम् । चाटु इति । ननु उपधावृद्धेर्नित्यत्वात् चाटु इत्येव भाव्यम् न तु चटु इति, प्रयुञ्जते तु कवयः कथमित्याशङ्कायामाह मृगय्वादित्वादिति । किंजरयोः श्रिणः । किं जर एतयोः शृ इण आभ्यां जुण् स्यात् । यथासंख्यमन्वयः । किमि शृधातोर्जुण्युदाहरति किशारुरिति । सस्यशुकमिति । 'किंशासन सस्यशूके विशिखे कङ्कपक्षिणि' इति मेदिनी । त्रो रश्च लः । त्रः रः इति छेदः । तू प्लवनतरणयोरित्यस्माद् नुण् स्यात् । रेफस्य च लकारो भवतीत्यर्थः । तरन्त्यनेनेति तालुः । वृद्धौ रेफस्य लकार इत्यर्थः । कृके वचः कश्च । कृके उपपदे वचधातोः बुण् स्यात् । चकारस्य च ककार इत्यर्थः । 'चजोः कु घिण्यतोः' इत्यनेनाप्राप्तौ कविधिरयम् । कृकवाकुरिति । वचधातोर्मुणि उपधावृद्धौ चस्य कत्वे रूपम् । कृकवाकुशब्दार्थं विवृण्वन् कोशमाह कृकवाकुर्मयूरे चेत्यादिना । भृमृशीतृ । भृञ् भरणे, मृङ् प्राणत्यागे, शीङ् स्वप्ने, तृप्लवनेषणु दाने, जन जनन, चर गतौ, चट भेदने । दाविति । 'काष्ठं दार्विन्धनं त्वधः" इत्यमरः । चादिति । 'चटु चाटु प्रियं वाक्यम्' इति हट्टचन्द्रः | 'चाटुर्नरि प्रियोक्तिः स्यात्' इति रत्नमलाकोशः । नरि पुंसि । 'चकर च किल चाटून् प्रौढयोषिद्वदस्य' इति माघः । माघे तु नपुंसकमपि दर्शितम् । 'चाटु चाकृतकसंभ्रममासाम्' इति । किंजरयोः । शृ हिंसायाम्, इण् गतौ, श्राभ्यामुण् स्यात् । सस्येति । 'किंशारुर्ना सस्यशुंके विशिखं कङ्कपक्षिणि' इति मेदिनीकोशः । त्रो रश्च लः । तृ प्लवनतरणयोः। त्रः रतिच्छेदः । केचित्तु तृ ऋ इति प्रश्लिष्य द्वयोरपि सवर्णदीर्घे तयोनोरित्युक्त्वा गतावित्यस्मादपि जुण रस्य ल इति व्याख्याय इयर्ति अर्यते वा आलुः शाकविशेषो घटी चेत्याहुः । 'कर्कर्यालुर्गलन्तिका' । भृमृशी । भृञ् भरणे, मृङ् प्राणत्यागे, शीङ् स्वप्ने, तृप्लवनतरणयोः, चर गतौ, अयं भक्षणेऽपि, त्सर छद्म गतौ, अत्र कर्तरि तव्यप्रत्ययोऽपाणिनीयः । अन्तर्भावितण्यर्थो वात्र भवतिः, ततश्च कर्मणि प्रत्ययः । · 1
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy