SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६७] बालमनोरमा-तत्वबोधिनीसहिता। [१३६ कश्च । 'प्रातो युक्-' (सू २७६१ ) वातीति वायुः। पायुर्गुदस्थानम् । जयत्य. भिभवति रोगान् जायुः औषधम् । मिनोति प्रक्षिपति देहे ऊष्माणमिति मायुः पित्तम् । स्वादुः । सानोति परकार्य साधुः । अश्नुते पाशु शीघ्रम् । 'पाशुर्वीहिः करणे, वा गतिगन्धनयोः, पा पाने, जि अभिभवे, डु मिञ् प्रक्षेपणे, स्वद प्रास्वादने, साध संसिद्धौ, अशू व्याप्ती, एषो द्वन्द्वात् पञ्चमी । एभ्य उम्प्रत्ययः स्यात्कर्बर्थ इत्यर्थः । कारुरिति । कर्तरि उणि 'अचो रिणति' इत्यनेन वृद्धौ च रूपम् । 'विश्वकर्मणि ना कारुस्त्रिषु कारकशिल्पिनोः' इति मेदिनी । वाधातोरुणप्रत्यथे युग्विधि स्मारयति आतो युगिति । पायुर्गुदस्थानमिति । उणि 'आतो युक्-' इति भावः । 'गुदं त्वपानं पायुर्ना' इत्यमरः । पा रक्षणे इत्यस्मादुणि तु रक्षकोऽप्यभिधीयते । जायुरिति । उणि वृद्धौ आयादेशे रूपम् । 'अगदो जायुः' इत्यमरकोशः। डु मिञ् प्रक्षेपणे इत्यस्मादुणि वृद्धिं बाधित्वा मीनातिमिनोतीत्यादिना प्रात्वे 'आतो युक्चिरकृतोः' इति युकि रूपम् । 'मायुः पित्तं कफः श्लेष्मा' इत्यमरः । स्वादुरिति । स्वदते रोचते इति स्वादुः पटः। विशेष्यनिघ्नोऽयम् । स्वादु फलमित्यादि बोध्यम् । सानोति परकार्यमित्यर्थे कर्तरि उण् । आशु शीघ्रमिति । विलम्बाभावमात्रपरत्वे क्लीबम् । तद्विशिष्टद्रव्यपरत्वे तु त्रिलिङ्गमिति बोध्यम् । 'उणादयो बहुलम्' इति बहुलवचनाल्लक्ष्यानुसारेण व्ववस्था । रह त्याग इत्यस्मादुणि उपधावृद्धौ राहरिति भवति । एवं वस निवास इत्यस्मादुण । वसत्यस्मिन्सर्वमिति वासुः । वासुश्चासौ देवश्च वासुदेवः । यद्यपि वसुदेवस्यापत्यमित्यर्थे 'ऋष्यन्धकवृष्णिकुरुभ्यश्च' इत्यणि 'विश्वकर्मणि ना कारुस्त्रिषु कारकशिल्पिनोः' इति मेदिनीकोशः । 'कारुः शिल्पिनि कारके' इति धरणिकोशस्तदेतदभिप्रत्याह कारुरित्यादि । श्राद्ये योगरूढिद्वितीये तु योगमात्रमिति विवेकः । अत एव द्वितीये धात्वर्थ प्रति कारकान्वयो भवत्येव । तथा च भट्टिः-'राघवस्य ततः कार्य कारुनिरपुङ्गवः । सर्ववानरसेनानामाश्वागमनमादिशत्' इति । पिबत्यनेन तैलादिकमिति पायुर्गुदस्थानम् । 'गुदं त्वपानं पायुर्ना' इत्यमरः । पाति रक्षतीति विग्रहे रक्षकोऽपि । तथा च मन्त्रः 'भुवस्तस्य स्वतवाँ: पायुरग्ने' इति। 'स्वतवान् पायौ' इति नस्य रुत्वम् । 'अगदो जायुरित्यपि' इत्यमरः । पुँल्लिङ्गसाहचज्जिायुः पुंसि । 'मायुः पित्तं कफः श्लेष्मा' इत्यमरः । गोपूर्वाद्गां वाचं विकृतां मिनोति प्रक्षिपतीति गोमायुः शृगाल इत्युज्ज्वलदत्तः। वस्तुतस्तु मायुःशब्दः 'यत्पशुर्मायुमकृत' 'गोमायुरेकः' 'अजमायुरेकः' इत्यादौ वेदभाष्यकारादिभिस्तथैव व्याख्यातत्वात् । स्वदते रोचते इति स्वादुः । विशेष्यनिनोऽयम् । एवं साधुरपि। श्राशु शीघ्रमिति विलम्बाभावमात्रे क्लीबम् , तद्विशिष्टद्रव्यपरत्वे तु त्रिलिङ्गम् । 'अथ शीघ्रं त्वरितम्' इत्युपक्रम्य तीबे
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy