________________
१३८ ]
सिद्धान्तकौमुदी। [उणादितेऽनेनेति पवित्रम् । देवतायां तु 'अग्निः पवित्रं स मा पुनातु'।
इति पूर्वकृदन्तप्रकरणम् ।
अथोणादयः ॥ ६७॥ १ कृवापाजिमिस्वदिसाध्यशूभ्य उण्। करोतीति कारुः, शिल्पी कारयच्चानामिकेति । अनामिका उपकनिष्ठिकाङ्गलिः । कर्तरि च । पवित्रमिति । पावमान्यादिसूक्तम् । अग्निः पवित्रमिति । पुनातीत्यर्थः । सामान्याभिप्रायमेकवचनं नपुंसकत्वं च । इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमाख्यायां तृतीयाध्यायस्य द्वितीयपादे पूर्वकृदन्तप्रकरणं
समाप्तम् । अथ कृवापाजीत्यादीन्युणादिसूत्राणि मूले प्रौढमनोरमायां च स्फुटं व्याख्यातानि। अथाप्यस्माभिरपि अनतिविस्तरेण व्याख्यायन्ते । तानि चमानि सूत्राणि शाकटायनमुनिप्रणीतानि नतु पाणिनिना प्रणीतानीति, उणादयो बहुलमिति सूत्रे भाष्ये 'नाम च धातुजमाह निरुक्ते व्याकरणे शकटस्य च तोकम्' इति वार्तिकव्याख्यावसरेऽभिहितम् । उणादीनां शास्त्रान्तरपठितानां साधुत्वाभ्यनुज्ञानार्थ बहुलग्रहणमिति कैयटः। नह्येषां पाणिनीयत्वे शास्त्रान्तरशब्दो युज्यते । उणादिप्रत्ययान्ताः शब्दाः पाणिनिमतेऽव्युत्पन्ना एव । अत एव 'आयनेयी-' इति सूत्रे प्रातिपदिकविज्ञानाच्च भगवतः पाणिनेः सिद्धम् उणादयो ह्यव्युत्पन्नानि प्रातिपदिकानीति भाष्ये उक्तम् । अत एव च 'आदेशप्रत्यययोः' इति सूत्रभाष्ये उणादयो ह्यव्युत्पन्नानि प्रातिपदिकानीत्युक्त्वा तर्हि सर्पिषा यजुषेत्यादौ अप्रत्ययत्वात् षत्वाभावमाशङ्कय बहुलग्रहणात् प्रत्ययसंज्ञामवलम्ब्य षत्वं साधितम् , व्युत्पत्तिपक्षश्च निराकृतः । अतोऽप्युणादिसूत्राणां न पाणिनीयत्वम् । अत एव 'अजेयंघअपोः' इति सूत्रभाष्ये अजधातोर्युप्रत्यये प्रकृतेर्वीभावे वायुशब्दो व्युत्पादितः । उणादिसूत्राणां पाणिनीयत्वे हि कृवापाजीत्युणादिसूत्रेणोप्रत्ययमाश्रित्यैव व्युत्पाद्यत । एवं च क्वचिद्भाष्ये उणादीनां व्युत्पन्नत्वाश्रयणं शास्त्रान्तरमूलकमेवेति शब्देन्दुशेखरे प्रपञ्चितम् । तथा च क्विब्वचीत्युणादिसूत्राणां तथाविधवार्तिकानां च न पौनरुक्त्यशङ्का । अथोणादयः। कृवापाजि । डु कृञ् इति सूत्रस्थभाष्यकैयटयोस्तु यथासंख्यं देति गम्यत इति शब्दकौस्तुभे स्थितम् ।
इति पूर्वकृदन्तम् । अथोणादयः । कृवापा । डुकृञ् करणे, वा गतिगन्धनयोः, पा पाने, पा रक्षणे, जि अभिभवे, डुमिञ् प्रक्षेपणे, स्वद प्रास्वादने, साध संसिद्धौ, अशु व्याप्तौ ।