________________
प्रकरणम् ६६ ]
बालमनोरमा-तत्त्वबोधिनीसहिता ।
[ १३७
च । ( ७-२-६) एषां दशानां कृत्प्रत्ययानामिएन स्यात् । शस्त्रम् । योत्रम् । योक्त्रम् । स्तोत्रम् | तोत्रम् । सेत्रम् । सेक्त्रम् । मेढम् । पत्रम् । दंष्ट्रा । नधी । ३१६४ हलसूकरयोः पुवः । ( ३-२-१८३ ) पूङपूत्रोः करणे ष्ट्रन्स्यात् । तच्चेटकरणं हल सूकरयोरवयवः । हलस्य सूकरस्य वा पोत्रम्, मुखमित्यर्थः । ३१६५ श्रर्तिलूधूसूखनसहचर इत्रः । ( ३-२-१८४) अरित्रम् । लवित्रम् | धुवित्रम् । सवित्रम् । खनित्रम् | सहित्रम् । चरित्रम् । ३१६६ पुवः संज्ञायाम् । ( ३-२-१८५ ) पवित्रम् । येनाज्यमुत्पूयते यच्चानामिकावेष्टनम् । ३१६७ कर्तरि चर्षिदेवतयोः । ( ३-२-१८६ ) पुत्र इत्रः स्यात् ऋष करणे, देवतायां कर्तरि । ऋषिर्वेदमन्त्रः । तदुक्तमृषिणेति दर्शनात् । पूय
अक्षरम् अशेः सरन् । क, शल्कः, शलेः कुः । स, वत्सः 'वदेः सः' । मेढ्रमिति । ‘मिह सेचने ́ त्रः । ढत्वधत्वष्टुत्वढलोपाः । दंष्ट्रेति । दशधातोः त्रः । क्डिप्रत्ययाभावान्नलोपो न । सूत्रे दशेति शपा निर्देशाद् 'दंशसञ्ज -' इति नलोपः । केनित्तु दशेत्यकार उच्चारणार्थः । नलोपनिर्देशात् क्वचिदन्यस्मिन्नपि प्रत्यये यि नलोप इति दशाना दन्ता इत्याहुः । नीति । नह्यनयेति विग्रहः । चर्मरज्जुः । 'नह बन्धने' त्रः । 'नहो धः' 'झषस्तथो:-' इति तस्य धः, षित्वान्ङीष् । हलसूकरयोः पुत्रः । पोत्रमिति । 'तितुत्रतथसिसुसर -' इति नेट् । श्रर्तिलूधू । अर्ति, लू, धू, सू, खन, सह, चर एषां सप्तानां द्वन्द्वात्पञ्चमी । पुवः संज्ञायाम् । इत्र इति शेषः । करणे इयुव । पवित्रमिति । पूयते अनेनाज्यमिति विग्रहः । तदाह येनाज्यमिति । पूयते श्राचमनोदकादिकमनेनेति विग्रहं मत्वाह
। ।
1
धत्वष्टुत्वढलोपः । दंष्ट्रेति । षित्त्वेऽपि ङीष् इह न भवति, अनित्यः षितां ङीषित्युक्लत्वात् । अन्ये त्वजादिपाठाट्टापमाहुः । नद्धीति । 'नहो धः' इति धत्वम् । 'झषस्तथोर्धो धः' इति जश्त्वम्। सुत्रे दशेति नलोपिनो निर्देशो ज्ञापकःक्वचिदकित्यपि दंशेर्नलोपो भवतीति । तेन दंश दशन इत्यस्माल्लयुटि दशना दन्ता इद्धिम् । न च सन्निधानात् ष्ट्रन्येव नलोपः स्यादिति वाच्यम्, 'शुनो दन्तदंष्ट्रा -' इति निर्देशात् । तश्चेत्करणमित्यादि । एतेन हलसूकरयोरभिधेयत्वमुपपदत्वं च निरस्तम् । मुखमित्यर्थ इति । तत्रैव रूढिरिति भावः । श्रर्तिलूधूसू । धू विधूनने इति कुटादिरेव गृह्यते, निरनुबन्धकत्वात् । अतएव 'गाङ्कुटा -' इति ङित्त्वाद् गुणनिषेधे उवङ्, तदाह धुवित्रमिति । पुवः । पूङ्पूञोरुभयोर्ग्रहणमविशेषात् । करण इत्यनुवृत्तेराह येाज्यमिति । कर्तरि चर्षि । इत्रः स्यादिति । करणे कर्तरि चेत्यर्थः । काशिकानुसारेण यथासंख्यं व्याचष्टे ऋषौ करणे इति । 'कर्तरि कृत्'