________________
१३६ ] सिद्धान्तकौमुदी। [पूवकृदन्तप्रतिभूः । ३१६० विप्रसंभ्यो वसंज्ञायाम् । (३-२-१८० ) एभ्यो भुवो हुः स्थान तु संज्ञायाम् । विभुयापकः । प्रभुः स्वामी। संभुर्जनिता । संज्ञायां तु विभूनाम कश्चित् । 'मितवादिभ्य उपसंख्यानम्' (वा २१५२)। मितं द्रवतीति मितद्रुः । शतद्रुः । शम्भुः। अन्तर्भावितण्यर्थोऽत्र भवतिः । ३१६१ धः कर्मणि ष्ट्रन् । (३-२-१८१) धेटो धानश्च कर्मण्यर्थे ष्ट्रन्स्यात् । षो डीपर्थः । 'धात्री जनन्यामलकीवसुमत्युपमातृषु ।' ३१६२ दाम्नीशसयुयुज स्तुतुदसिसिचमिहपतदशनहः करणे । (३-२-१८२) दाबादेः ष्ट्रन् स्यारकरणेऽर्थे । दान्स्यनेन दात्रम् । नेत्रम् । ३१६३ तितुत्रतथसिसुसरकसेषु प्रतिदत्ते सति प्रातिभाव्यस्य निवृत्तेः । विप्रसभ्यः । डु असज्ञायामिति छेदः । विभुरिति । डित्त्वसामर्थ्यादभस्यापि टेर्लोपः । सम्भुरिति । संभवति उत्पादयतीति सम्भुः, तदाह जनितेति । मितबादिभ्य इति । मितद्रुवादिसिद्धयर्थ डप्रत्ययस्य उपसंख्यानमित्यर्थः । शम्भुरिति । शं सुखं भवति उत्पादयतीत्यर्थः । तदेवोपपादयति अन्तर्भावितेति । धः कर्मणि ष्ट्रन् । धेटः कृतात्वस्य धाश्च ध इति पञ्चम्यन्तम्, तदाह धेट इत्यादि । षकारात् तकारस्य ष्टुत्वसंपन्नटकारेण निर्देशः, षस्य इत्संज्ञायां लोपे सति ष्टुत्वसंपन्नस्य टस्य निवृत्तिः, तदाह धात्रीत्यादि । दानी। दाप , नी, शस, यु, युज, स्तु, तुद, सि, सिच, मिह, पत, दश, नह, एषां त्रयोदशानां द्वन्द्वः । 'दाप् लवने' इत्यस्य पकारस्य स्थाने 'यरोऽनु-' इति कृतमकारस्य निर्देशः। अत्र शसः पतेश्च प्रत्यये इटमाशङ्कयाह तितुत्रत । ति, तु, त्र, त, थ, सि, सु, सर, क, स एषां दशानां द्वन्द्वः । अत्र सरत्येकम् । ति, तन्तिः 'स्त्रियाम्' इति लिन् । तु, सक्तुः, 'तनिगमि-' इत्यादिना तुप्रत्ययः । त्र, शस्त्रम् , पत्रम् । 'दाम्रो-' इति त्रप्रत्ययः । त, हस्तः । औणादिकः तप्रत्ययः । कृप्रत्यये तु हसितमित्येव । थ कुष्ठम् । औणादिकः क्थप्रत्ययः । सि कुतिः । कुषेरौणादिकः क्सिप्रत्ययः । सु, इक्षुः, इषेरौणादिकः क्सप्रत्ययः । सर, संज्ञेति फलितं तत्र संज्ञायामित्येव सिद्ध किमन्तरग्रहणेन। अत्राहः-यावद्व्यभाविन्यः संज्ञाः । प्रतिभूशब्दस्तु मत्येव तास्मन् ऋणप्रदानेन निवर्तत इत्युभयोर्भेद इति ||शं सुखं भावयतीति शंभुरित्यर्थाभ्युपगमेनाह अन्तर्भावितेति । शं भवति सुखस्वरूपो भवतीति शंभुरित्यन्ये । शं भवत्यस्मादिति व्युत्पत्तिस्तु अपादाने डुप्रत्ययाभावाच्चिन्त्येति माधवः । धः कर्मणि । कमेणीति नोपपदम् । 'हावामश्च' इत्यनन्तरमेव धः ष्ट्रनिति वक्तव्ये पृथक्कर्मप्रहणाद्याख्यानाद्वेत्याशयेनाह कर्मण्यर्थे इति । अतएव धीयते पीयत इति धात्री स्तनदायिनीत्यादि व्याचक्षते। दानी मेदमिति । 'हो ढः,