________________
प्रकरणम् ६६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१३५ वार्तिके ग्रहणम् । वक्रीति वाक् । पृच्छतीति प्राट् । श्रायतं स्तौति प्रायतस्तूः । कटं प्रवते कटप्रः । जुरुक्कः । श्रयति हरिं श्रीः । 'युतिगमिजुहोतीनां द्वे च' (वा २१४६) दृशिग्रहणादभ्याससंज्ञा । दिद्युत् । जगत् । 'जुहोतेर्दीर्घश्च' (वा २१४६ ) । जुहूः। 'दृ भये', 'अस्य हस्त्रश्च, दीर्यति, दहत् । 'ध्यायतेः संप्रसारणं च' (वा २१५१)। धीः। ३१५६ भुवः संज्ञान्तरयोः। (३२-१७६ ) मित्रमूर्नाम कश्चित् । धनिकाधमर्णयोरन्तरे यस्तिष्ठति विश्वासार्थ स वासरूपविधिस्तु ताच्छीलिकेषु नेति भावः । वागिति । वचधातोः क्विप् , वचनाद् उपधाया दीर्घः, 'वचिस्वपि-' इति संप्रसारणाभावश्च । एवं कटपूरित्यत्र दीर्घः । प्राडिति । वचनान्न संप्रसारणम् । जुरुक्त इति । 'भ्राजभास-' इत्यत्रेति शेषः । अतोऽत्र तद्ग्रहणं मास्त्विति भावः । श्रीरिति । श्रित्रः विपि दोघः । द्यतीति । 'द्युतिगमिजुहोत्यादीनां द्वित्वं विच' इति वाच्यमित्यर्थः । 'पूर्वोऽभ्यासः' इत्यत्र षाष्ठद्विवचन एव पूर्वखण्डस्याभ्याससंज्ञावचनादाह दृशिग्रहणादिति । 'अन्येभ्योऽपि दृश्यते' इत्यत्रेत्यर्थः । ततश्चाभ्यासकार्य हलादिशेषादीति भावः । दिद्युदिति । 'युतिस्वप्योः-' इति संप्रसारणम् । जगदिति । गमेः विप् 'गमः कौ' इति मलोपे तुक् । जुहोतेीर्घश्चेति । वार्तिकमिदम् चात्किद्वित्वे । ह्रस्वश्चेति । वार्तिकमिदम् । ददृदिति । ह्रस्वे कृते तुक् । ध्यायतेरिति । वार्तिकमिदम् । चात् किम् । धीरिति । ध्यैधातोः क्विपि संप्रसारणे पूर्वरूपे 'हलः' इति दीर्घ इति भावः । अत्र 'ध्यायतेः संप्रसारणं च' इत्युणादिषु पठितत्वादिदं वार्तिक मास्त्वित्याहुः । वस्तुतस्त उणादिसूत्राणि न पाणिनीयानि किन्तु ऋष्यन्तरप्रणीतानीति वक्ष्यते अतो न पौनरुक्तयशङ्का । भुवः सज्ञान्तरयोः । क्विबिति शेषः । संज्ञान्तरयोरेवेति नियमार्थ सूत्रम् । संज्ञायामुदाहरति मित्रभूर्नामेति । अन्तरे उदाहरति धनिकेत्यादि । यावद्रव्यभाविन्यः संज्ञाः । प्रतिभूशब्दस्तु सत्येव पुरुष कदाचिन भवति, ऋणे इत्यभ्यासस्य संप्रसारणम् । जगदिति। 'गमः क्वौ' इति मलोपे तुक् । अत्र 'द्वे च' इति चकारेण दीर्घः समुच्चीयमानो द्युतिगम्योर्न भवति, दीर्घश्रुत्या 'अचश्च' इति परिभाषोपस्थानादजन्तस्य जुहोतेरेव संभवतीत्याशयेनाह जुहोतेर्दीर्घश्चेति । जुहोतीति जुहूः हस्वश्चेति चकारेण द्वित्वं समुच्चीयते । धीरिति ध्यायतीति धीः । 'हलः' इति दीर्घः । ननु ध्यायति पुरुषो न तु धीः, एवं जुहोत्यनया पुरुष इति सर्वसमतत्वात् । कथं तर्हि भवदुक्वार्थः संगच्छत इति चेत् । अत्राह हरदत्तः-करणस्य कर्तत्वविवक्षाया किब् भवति । भुवः संज्ञा । धनिकेत्यादि । तेन ग्रामयोरन्तरे यस्तिष्ठति तत्र नेति भावः । एतच्च दृशिग्रहणानुवृत्त्या लभ्यते । नन्वेवं प्रतिभूशब्दः