________________
१३४ ] सिद्धान्तकौमुदी। [ पूर्वकृदन्तकिए । (३-२-१७७) विभ्राट् । भाः भासौ । धूः धुरौ । विद्युत् । अझ् । पू: पुरौ । दृशिग्रहणस्याप्यपकर्षाजवतेर्दीवः । जूः जुवौ जुवः । ग्रावशब्दस्य धातुना समासः सूत्रे निपात्यते । ततः विप् । ग्रावस्तुत् । ३१५८ अन्येभ्योऽपि दृश्यते । (३-२-२७८) विप् । छित् । भिद् । दृशिग्रहणं विध्यन्तरोपसंग्रहा. र्थम् । कचिदीर्घः, क्वचिदसंप्रसारणम्, कचिद् द्वे, क्वचिद्धस्वः। तथा च वार्तिकम् - 'किव्वविप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घोऽसंप्रसारणं च' (वा २१४७-४८)। किम्वचीत्यादिनोणादिसूत्रेण केषांचिसिद्ध तच्छीलादो तृना बाधा मा भूदिति द्युत, ऊर्जि, पृ, जु, प्रावस्तु, एभ्योऽष्टभ्यः किप्स्यात् तच्छीलादिषु कर्तृष्वित्यर्थः । विभ्राडिति । 'वश्व-' इति षः । भा इति । भासेः विपि सकारान्तस्य रुत्वविसौ । धूरिति । धुर्वीधातोः विप् । 'राल्लोपः' इति वकारस्य लोपः । धुर् इति रेफान्तम् । सुलोपः । 'र्वोरुपधायाः-' इति दीर्घः । पूरिति । पृधातोः विप् । 'उदोष्ठय-' इत्युत्त्वम् , रपरत्वम् । पुर् इति रेफान्तम् , सुलोपे 'वो:-' इति दीर्घः । जुधातोः विपि दीर्घ साधयितुमाह दृशि ग्रहणस्याप्यपकर्षादिति। उत्तरसूत्रादिति भावः । अत्र व्याख्यानमेव शरणम् । ननु प्रावस्तु इति कथं समस्तनिर्देशः, सुबन्तस्य प्रावशब्दस्य धातुना समासासंभवादित्यत आह ग्रावशब्दस्येति । प्रावस्तुदिति। पित्त्वात्तुक् । अन्येभ्योऽपि । किविति । शेषपूरणमिदम् । भ्राजभास इत्यादिसूत्रोपात्तापेक्षया अन्येभ्योपि धातुभ्यः तच्छीलादिषु कर्तृषु क्विब् दृश्यते इत्यर्थः । विध्यन्तरेति। विधीयते इति विधिः कार्य कार्यान्तरोपसंग्रहार्थमित्यर्थः, तदेव दर्शयति क्वचिद्दीर्घ इत्यादि । किब्वचीत्यादिनेति। 'किन्वचिप्रच्छयायतस्तुकटपुजुश्रीणां दीर्घोऽसंप्रसारणं च' इत्यौणादिकसूत्रेणेत्यर्थः । तृना बाधा मा भूदिति । दीप्तौ, भास दीप्तौ, धुर्वी हिंसायाम् , द्युत दीप्तौ, ऊर्जबलप्राणनयोः, पृपालनपूरणयोः, जु गतौ सौत्रः। प्रावपूर्वः ष्टुञ् स्तुतौ। विभ्राडिति। 'ब्रश्च-' इति षत्वम् । जश्त्वचर्खे । धूरिति । 'राल्लोपः' इति वलोपः, 'र्वोरुपधायाः' इति दीर्घः । ऊर्गिति । 'चोः कु:' 'रात्सस्य' इति नियमान संयोगान्तलोपः । पूरिति । 'उदोष्ठयपूर्वस्य' इत्युत्वम्' 'र्वोः-' इति दीर्घः । वाक् । प्राडिति । इह दीर्घः संप्रसारणाभावश्च । संप्रसारणप्राप्तिस्तु 'वचिस्वपि-' 'अहिज्यावयि-' इत्यादिना । श्रयति हरिं श्रीरिति । प्राचा तु श्रयन्त्येतामिति कर्मणि क्किबदाहृतस्तत्र 'कर्तरि कृत्' इति सूत्रविरोधः स्पष्ट एव । बाहुलकं तु अगतिकगतिः। द्युति द्वे चेति । कृतेऽपि द्वित्वे अभ्याससंज्ञेह दुर्लभा, प्रत्यासत्त्या पाठद्वित्व एव प्रवृत्तेरत एव आष्टमिके सा नेत्याशङ्कायामाह शिग्रहणादिति।दिद्युदिति । 'युतिस्वाप्योः'