SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६६ ] बालमनोरमा तत्त्वबोधिनीसहिता। [१३३ भियः क्रुक्लुकनौ । (३-२-१७४) भीरुः । भीलुकः । 'क्रुकन्नपि वाज्यः' (वा २१४५)। भीरुकः । ३१५५ स्थशभासपिसकसो वरच् । (३-२-१७५) स्थावरः । ईश्वरः । भास्वरः । पेस्वरः । कस्वरः । ३१५६ यश्च यङः । (३-२-' १७६ ) यातेर्यहन्ताद्वरच् स्यात् । 'अतो लोपः' ( स २३००८ तस्य 'अचः परस्मिन्-'(सू ५०) इति स्थानिवद्भावे प्राप्ते 'न पदान्त-' (सू५१) इति सूत्रेण यलोपं प्रति स्थानिवद्भावनिषेधात् 'लोपो व्योः-' (सू ८७३) इति यकारलोपः । अल्लोपस्य स्थानिवस्वमाश्रित्य पातो लोपे प्राप्ते 'वरे लुप्तं न स्थानिवत्' । यायावरः । ३१५७ भ्राजभासधुर्विद्युतोर्जिपूजुग्रावस्तुवः श्राभ्याम् आरुप्रत्ययः स्यात्तच्छीलादिष्वित्यर्थः । भियः । भीधातोः क क्लुकन् एतौ स्तः तच्छीलादिष्वित्यर्थः । कित्त्वान गुणः। स्थेश। 'टा गतिनिवृत्ती, इश ऐश्वर्य, भासू दीप्ती, पिस पेस गतौ, कस् गतौ एभ्यो वरच् स्यात्तच्छीलादिष्वित्यर्थः । ईश्वरीति तु पुंयोगे डीष । यश्च यङः। 'या प्रापणे' इत्यस्य धातोरनुकरणस्य या इत्यस्य य इति षष्ठयन्तम् , तदाह यातेरिति । याधातोर्यङ्, द्वित्वादि 'दीर्घोऽकितः' इत्यभ्यासस्य दीर्घः, यायाय इति यङन्ताद्वरचि विशेषमाह अतो लोप इति । हलः परत्वाभावाद् 'यस्य हलः' इति यकारलोपो न । यायाय वर इति स्थिते आह लोपो व्योरिति यकारलोप इति । ननु अतो लोपस्य 'अचः परस्मिन्-' इति स्थानिवत्त्वाद् अकारेण व्यवधानाद् वल्परत्वाभावात् कथमिह यलोप इत्यत आह तस्येति। तस्य अल्लोपस्य यलोपे कर्तव्ये 'न पदान्त-' इति स्थानिवत्त्वनिषेधादित्यर्थः। एवं च योऽकारस्य यकारस्य च लोपे यायावर इत्यत्र 'आतो लोप इटि च' इत्याल्लोपमाशङ्कय निराकरोति अल्लोपस्येति । यङकारलोपस्य 'अचः परस्मिन्-' इति स्थानिवत्त्वमाश्रित्य तदकारात्मकार्घधातुकपरत्वाद् आकारस्य 'आतो लोप इटि च' इत्याल्लोपे प्राप्ते सति परिहार उच्यते इत्यर्थः । परिहारमेवाह वरे लुप्तं न स्थानिवदिति । लुप्तमिति भावे क्लः । 'न पदान्त-' इति सूत्रे वरे इत्यनेन वरे परे विहितं न स्थानिवदिति लभ्यते । अल्लोपोऽयमार्धधातुके वरे परे विहितः । अतः तस्य स्थानिवत्त्वाभावान्न योऽकारमाश्रित्य 'आतो लोप इटि च' इत्यस्य प्रवृत्तिरित्यर्थः । एवं च 'न पदान्त-' इति सूत्रे वरे इत्यंशस्य यलोपे इत्यंशस्य च यायावर इत्युदाहरणमिति बोध्यम् । भ्राजभासधुर्विद्युतोर्जिपृजुग्रावस्तुवः । भ्राज, भास, धुर्वि, 'नीग्वञ्चु-' इत्यादिना प्राप्तस्य नीगागमस्याभाव इत्यर्थः । तृष्णगिति । छित्त्वान्न गुणो नजिङ इकार उच्चारणार्थः । क्रुकन्नपीति । अतएव 'भीरुभीरुकभीलुकाः' इत्यमरः । ईश्वर इति । 'नेडशि-' इतीडभावः । पेस्वर इति । पिस पेस गती। कस्वर इति । कस गतौ । भ्राज । आरित्युक्तत्वात्तच्छीलादिष्वयं विप् । भ्राज़
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy