________________
१३२ ।
सिद्धान्तकौमुदी ।
[ पूर्वकृदन्त
1
'जघ्निर्वृत्रममित्रियम्' । जज्ञिः । 'भाषायां धान्कृसृगमिजनिनमिभ्यः' (व) २१४४ ) । दधिः । चक्रिः । सत्रिः । जग्मिः । जज्ञिः । नेमिः । 'सासहिवा वहिचाच लिपापतीनामुपसंख्यानम् ' ( वा २१४४ ) । यङन्तेभ्यः सहत्यादिभ्यः किकिनौ पतेर्नीगभावश्च निपात्यते । ३१५२ स्वपितृषोर्नजिङ् । ( ३-२-१७२) स्वमक् । तृष्णक् तृष्णजौ तृष्णजः । 'धृषेश्चेति वाच्यम् इति काशिकादौ । धृष्णक् । ३१५३ शृवन्द्योरारुः । ( ३-२-१७३ ) शरारुः । वन्दारुः । ३१५४ जनिरिति । हनः किः, द्वित्वादि । 'गमहन -' इत्युपधालो: । ' ही हन्तेः -' इति कुत्वम् । जज्ञिरिति । जनेः किः, द्वित्वादि । एवं किन्यपि बोध्यम् । स्वरे विशेषः । छान्दसमप्येतत्सूत्रद्वयं भाषायामित्यादिवच्यमाणवार्तिकविवेचनाय इहोपन्यस्तम् । भाषायामिति । वार्तिकमिदम् । धाञ्, कृ, सृ, गमि, जनि, नमि एभ्यः षडभ्यः किकिनौ तौ च लिवदिति वक्तव्यमित्यर्थः । दधिरित्यादि । किकिनोः कृतयोः द्वित्वादि यथासंभवं ज्ञेयम् । नेमिरिति । नमेः किः द्वित्वम्, एत्त्वाभ्यासलोपौ । सासहीति । सङि द्वित्वादौ 'दीर्घोऽकितः' इति दीर्घे, 'केकिनोः कृतयोः 'यस्य हल:' इति यकारलोपे तो लोपे सासद्दीति निर्देशः । एवं वदेः चलेः पतेश्च यङन्तस्य विकिनन्तस्य निर्देशः । एषां निपातनस्य उपसंख्यानमित्यर्थः । तदाह यङन्तेभ्यः सहेत्यादिभ्य इति । नीगभाव इति । 'नीग्वञ्चु -' इति प्राप्तस्य नीगागमस्याभाव इत्यर्थः । स्वपितृषोर्नजिङ् । पञ्चम्यर्थे षट्टो | स्वपेः तृषेश्च नजिङ् स्यात् तच्छीलादिष्वित्यर्थः । जकारादिकार उच्चारणार्थः । ङकार इत् । स्वप्नगिति । स्वपनशील इत्यर्थः। स्वप्नजौ स्वप्नजः । एवं तृष्णक्, तर्षणशील इत्यर्थः । धृषेश्चेति । नजिङिति शेषः । काशिकादाविति । भाष्ये तु न दृश्यते इति भावः । शृन्द्योरारुः । पचम्यर्थे षष्ठी । 'शू हिंसायाम् ' 'वादे अभिवादनस्तुत्योः'
,
वार्तिकम् 'किकिनाgत्सर्गश्छन्दसि सदादिभ्यो दर्शनात्' इति । उदाहृतं च भाष्ये सेहिर्नेमिरित्यादि । एवं स्थिते श्रदिति परकरs पि न क्षतिरिति ध्वनयन्नाह श्रदन्ताद्ददन्तादिति । बभ्रिर्वज्रमिति । 'न लोका-' इति षष्ठीनिषेधाद् द्वितीया । किकिनोः स्थाने तिबादयो न लिडुदित्यतिदेशेन स्वरूपाबाधेनैव कार्यातिदेशात् । छान्दससूत्रद्वयोपन्यसनं भाषायां घाञित्यादिवार्तिकविषयविषेचनार्थम् । इह च वार्तिके गमिर्यद्यपि न दृश्यते तथापि धातुवृत्तौ क्वचिद्वृत्तिपुस्तके च दर्शनादुपन्यस्तः । जग्मिरिति । 'गमहनजन -' इत्युपधालोपः । जघ्निरिति । 'अभ्यासाच्च' इति कुत्वम् । दधिरिति । श्रतो लोपः । नेमिरिति । एत्वाभ्यासलोपौ । सासहीत्यादि । योऽतोलोपे यलोपः । अभ्यासदीर्घः । नीगभावश्चेति ।