________________
प्रकरणम् ६६ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [१३१ च निपात्यते । बत्ति तच्छीलो विन्दुः । इच्छति इच्छुः। ३१५० क्याच्छन्दसि । (३-२-१७०) 'देवाञ्जिगाति सुम्नयुः' । ३१५१ आगमहनजनः किकिनौ लिट् च । (३-२-१७१) प्रादन्तादृदन्ताद्वमादिभ्यश्च किकिनी खश्छन्दसि तो चलिड्वत् । पपिः सोमम् । ददिर्गाः । बर्विज्रम् । जग्मियुवा। तच्छीलादिष्वित्यर्थः । आशंसुरिति । 'पाठः शसि इच्छायाम्' इत्यस्मादुः । विन्दुरिच्छुः । वेत्तेरिति । 'विद ज्ञाने' इत्यास्यादुप्रत्यये प्रकृतेर्नुमागमः 'इषु इच्छायाम् ' इत्यस्मादुप्रत्यये षकारस्य छत्वं च निपात्यत इत्यर्थः । वेत्तीति । धातुप्रदर्शनम् । तच्छील इति । वेदनशील इत्यर्थः । इच्छतीति । 'इषु इच्छायाम्' इति धातुप्रदर्शनम् । इच्छुरिति । एषणशील इत्यर्थः । क्याच्छन्दसि। क्यप्रत्ययान्तादुप्रत्ययः स्यात् तच्छीलादिषु छन्दसीत्यर्थः । सुम्नयुरिति । सुम्नं सुखम् । तदात्मन इच्छतीत्यर्थे सुम्नशब्दात् क्यच् । 'न च्छन्दस्यपुत्रस्य' इति निषेधात् 'क्यचि च' इति ईत्वम् 'अकृत्सार्व-' इति दीर्घश्च न । सुम्नय इति क्यजन्तादुप्रत्ययः, आतो लोपः । आगम । आत् , ऋ, गम, हन, जन् , एषां द्वन्द्वातञ्चमी । कि किन् अनयोर्द्वन्द्वः। लिट् चेति व्याचष्टे तौ च लिइवदिति। तच्छीलादिष्वित्येव । पपिरिति । पाधातोः किः, द्वित्वादि, आल्लोपः। ददिरिति । दाधातोः किः, द्वित्वादि। बभ्रिर्वज्रमिति । मृञः किः, द्वित्वादि। विति, आडा सह निर्देशात् । विन्दुरिच्छुः । विद ज्ञाने इत्यस्यैव ग्रहणं नेतरेषाम् । एवमिषरपि इच्छार्थ कस्यैव ग्रहणं नस्विष गतौ, इष श्राभीदाय इत्यनयोः, अनभि. धानान्निपातनाद्वति भावः । बिन्दुशब्दस्तु पवर्गीयादिः 'बिदि' अवयवे अस्मान्मृगवादित्वात्कुप्रत्यये बोध्यः । क्याच्छन्दसि।क्य इति क्यच्क्यष्क्यां सामान्यग्रहणम् । क्यान्तद्धातोश्छन्दसि विषये तच्छीलादिषु उप्रत्ययो भवतीति काशिका, कियः क्य इति व्याख्यानात्करा डादियगपि गृह्यते । तेन 'तुरण्यवोऽशिरसो नक्षन्त', 'सपर्येम सपर्यवः' 'यमस्य योनौ शकुन भुरण्युम्' इत्यादि सिद्धम् । तुरण त्वरायाम् , सपर पूजायाम् , भुरण धारणपोषणयोरित्येते कण्डादिषु पठिताः अथ कथं 'सन्तः प्रणयिवाक्यानि गृह्णन्ति ह्यनस्यवः' इति भट्टपादाः । मृगय्वादिषु असूयुशब्दो द्रष्टव्य इति हरदत्तः । सुम्नयुरिति । सुम्नशब्दात्स्यचि तदन्तादुः। 'न छन्दस्यपुत्रस्य' इति निषेधात् 'क्यचि च' इति ईत्वम् 'अकृत्सार्व-' इति दीर्घश्व न भवति । आह । 'ऋदोरप्' इतिवदादिति दकारो मुखसुखार्थो न त्वयं तकारस्तेन तात्परत्वाभावाह इत्यनेनैव दीर्घोऽपि गृह्यते। तेन ततुरिर्जुगुरिः । तृ प्लवनतरणयोरित्यस्य गृ निगरणे इत्यस्य च 'बहुलं छन्दसि-'इत्युत्वं रूपमिति प्राञ्चः । वस्तुतस्तु श्रादित्यादिप्रकृतिविशषणमुदाहरणं प्रपञ्चमात्रम् । किकिनौ लिट्चेत्येतावन्मात्रमेव विवक्षितम् । तथा च