SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ १३० ] सिद्धान्तकौमुदी। [ पूर्वकृदन्त३१४५ जागुरूकः । (३-२-१६५) जागतेस्कः स्यात् । जागरूकः । ३१४६ यजजपदशां यङः। (३-२-१६६) एभ्यो यन्तेभ्य अकः स्यात् । दशामिति भाविना नलोपेन निर्देशः । यायजूकः । जापकः । दन्दशूकः । ३१४७ नमिकम्पिस्यजसकमहिंसदीपो रः। (३-२-१६७) नम्रः । कम्प्रः । स्मेरः । जसिर्नम्पूर्वः क्रियासातये वर्तते । प्रजनम् , सन्ततमित्यर्थः । कम्रः। हिंस्रः। दीपः । ३१४८ सनाशंसभित उः। (३-२-१६८) चिकीर्षुः । माशंसुः । भिक्षुः । ३१४६ विन्दुरिच्छुः । (३-२-१६६) वेत्तेर्नुम् इषेश्छत्वं गत्वरीति । 'टिड्ढ-' इति डीप् । जागुरूकः । जागृ इत्यस्य जागुरिति पञ्चम्यन्तं पदम् , तदाह जागतेरिति तच्छीलादिष्वित्येव । जागरूक इति । ऋकारस्य गुणः, परत्वम् । सिद्धरूपं तु न निपातितम् , उत्तरसूत्रे ऊक इत्यननुवृत्तिप्रसात् । यज. जपदशा यङः । यज, जप, दश एषां त्रयाणां द्वन्द्वः, पञ्चम्यर्थे षष्ठी। तदाह एभ्य इति । तच्छीलादिष्वित्येव । ननु देश!पधत्वात् कथं दशामिति निर्देश इत्यत आह भाविनेति। ऊके कृते सति भविष्यतो नलोपस्यात्र निर्देश इति यावत् । यायजक इति । 'यस्य हलः' इति यलोपः। 'अतो लोपः' 'दीर्घोऽकितः' इत्यभ्यासस्य दीपः । जञ्जपूक इति । 'जपजभदहदशभजपशां च' इत्यभ्यासस्य नुक् । एवं दन्दशुकः । नमिकम्पि । नमि, कम्पि, स्मि, अजस् , कम, हिंस, दीप् एषा द्वन्द्वात्पञ्चम्येकवचनम् । एभ्यः सप्तभ्यो रप्रत्ययः स्यात् तच्छीलादिष्वियर्थः । अजस्धातोः धातुपाठे अदर्शनादाह जसिनपूर्व इति । 'जसु मोक्षणे' अयं नम्पूर्वः शक्तिस्वभावात् क्रियासातत्ये वर्तते इत्यर्थः । निपातनाद्धातुना नत्रः समासे 'नलोपो नमः' इति नलोपः। सनाशंस । सन् , आशंस, भित् एषां त्रयाणां द्वन्द्वात्पञ्चम्येकवचनम् । सनिति सन्प्रत्ययान्तं गृह्यते । 'षणु दाने, षण संभो' इत्य. नयोस्तु न ग्रहणम् । गर्गादिषु विजिगीषुशब्दपाठाल्लिङ्गात् । एभ्य उप्रत्ययः स्यात् स्त्रियां दी । जागुरूकः। जागुरिति पञ्चम्यन्तं तद्वयाचष्टे जागर्तेरिति । जागरूक इति सिद्धरूपमेव तु न निपातितम् । उत्तरसूत्रे ऊकस्याननुवृत्तिप्रसङ्गात् । यजजप । यायजूक इति । यजेर्यवि द्वित्वादि, 'दीर्घोऽकितः' इत्यभ्यासदीर्घः, अतो लोपे 'यस्य हलः' इति यलोपः । जञ्जपूक इत्यादि । 'उपजभदहदश-' इत्यादिना नुक् । वावदूकशब्दस्तु 'उलूकादयश्च' इत्यत्र वक्ष्यते। माधवस्त्वाह कुर्वादिगणे वावदूक इति पाठादेव यङन्ताद्वदेरूकप्रत्यय इति । सनाशंस । सनिति प्रत्ययग्रहणातदन्तग्रहणम् । षणु दाने । षण संभक्ताविति धात्वोस्तु नेह प्रहणम् । गर्गादिषु विजिगीषुशब्दस्य पाठात् । प्राशंसेत्याङः शंसु इच्छायामित्ययं गृह्यते न शंसु स्तुता
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy