________________
१२८ ] सिद्धान्तकौमुदी। । पूर्वकृदन्तइत्यादि । ३१३५ जल्पभिक्षकुट्टलुण्टवृङः षाकन् । (३-२-१५५) जल्पाकः । भिक्षाकः। कुट्टाकः । लुण्टाकः । वराकः । वराकी । ३१३६ प्रजोरिनिः। (३-२-२५६ ) प्रजवी प्रजविनी प्रजविनः । ३१३७ जितिविश्री. एवमाव्यथाभ्यमपरिभूप्रसूभ्यश्च । (३-२-१५७ ) जयी। दरी। चयी। विश्रयी । प्रत्ययी । वमी । अन्यथी । अभ्यमी । परिभवी। प्रसवी। ३१३८ स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच् । (३-२-१५८) पाया.
दशभ्य उकञ् स्यात् तच्छीलादिष्वर्थेषु । इत्यादीति। पादुकः । आतो युक् , स्थायुकः । भावुकः । वर्षकः। घातुकः 'हनस्तः-' इति तत्वम् । हो हन्तेः-' इति कुत्वम् । कामुकः । गामुकः । शारुकः। जल्पभिक्ष । एभ्यः पञ्चभ्यः षाकन् स्यात् तच्छीलादिष्वित्यर्थः । षनावितौ । स्त्रियां षित्त्वान् ङीष् । जल्पाक इत्यादि । प्रजोरिनिः। जुः सौत्रो धातुः। प्रपूर्वादस्माद् इनिप्रत्ययः स्यात् तच्छोलादिष्वित्यर्थः । नकारादिकार उच्चारणार्थः । जिदक्षि । जि, दृ, ति, विधि, इण, वम, अव्यथ, अभ्यम, परिभू , प्रसू , एषां दशानां द्वन्द्वः । जि जये, जि अभिभव । दृङ् आदरे । क्षि क्षये, क्षि निवासगत्योः। श्रिञ् सेवायां विपूर्वः । इण गतौ ।टुवमु उद्गिरणे । व्यथ भयसंचलनयोः नपूर्वः। निपातनाद् नमो धातुना समासे 'न लोपो नञः' इति नकारलोपः । श्रम गत्यादिषु
अभिपूर्वः । भू सत्तायां परिपूर्वः । षू प्रेरणे प्रपूर्वः । एभ्य इनिः स्यात्तच्छीलादि. वित्यर्थः । सूतिसूयत्योस्तु सानुबन्धकत्वाद् नेह ग्रहणम् । स्पृहिगृहि । स्पृहि, गृहि, पति, दयि, निद्रा, तन्द्रा, श्रद्धा, एभ्यः सप्तभ्य आलुच् स्यात्तच्छीलादिग्वित्यर्थः । स्पृहयालुरिति । स्पृहधातोरदन्तादालुच् । 'अयामन्त-' इति णेरय णिलोपापवादः। अल्लोपस्य स्थानिवत्त्वान्न लघूपधगुणः । एवं गृहयालुः । पतयालुरित्यत्र तु अल्लोपस्य स्थानिवत्त्वानोपधाद्धिः । निद्रालुरिति । 'द्रा कुत्सायां गतौ' निपूर्वादालुच् । विधिरिति । षो डीषर्थ इत्याह वराकीति । प्रजो। जु इति सौत्रो गत्यर्थः । जिति । जि जये, जि अभिभवे, दृङ् आदरे, क्षि क्षये, क्षि निवासगत्योः, श्रिञ् सेवायां विपूर्वः, व्यथ भयसंचलनयोर्नपूर्वः । निपातनानको धातुना समासे नलोपे ततः प्रत्ययः । श्रम गत्यादिषु अभिपूर्वः । प्रसवीति । षू प्रेरणे, अस्मादिनिः । पूज् प्राणिगर्भविमोचने, फूङ प्राणिप्रसवे, इमौ न गृह्यते सानुबन्धत्वात् । 'जिदृक्षि-' इत्यत्रैव प्रजुं पठित्वा पूर्वसूत्रं त्यक्तुमुचितम् । एवं हि पृथग्विभक्तिश्वकारश्च मास्त्विति सुवचम् । स्पृह । स्पृह ईप्सायाम् , गृहू ग्रहणे, पत गतौ । त्रयश्चुरादाविति। तेन ोरयादेशेन रूपसिद्धिरिति भावः। यद्येवं णिचि उपधागुणवृद्धी स्यातामत आह