________________
प्रकरणम् ६६ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ १२७
यकारान्ताद्युन स्यात् । क्नयिता चमायिता । ३१३३ सूददीपदीक्षश्च । ( ३-२- १५३ ) युज्न स्यात् । सूदिता । दीपिता । दीक्षिता । 'नभिकम्पि ' ( सू ३१४७ ) इति रेण युचो बाधे सिद्धे दीपेर्ग्रहणं ज्ञापयति 'ताच्छीलिकेषु वासरूपविधिर्नास्ति' इति प्रायिकमिति । तेन कम्रा कमना युवतिः । कम्प्रा कम्पना शाखा । यदि सूदेर्युज्ज, कथं मधुसूदनः- नन्द्यादिः । ३१३४ लषपतपदस्थाभूवृषहनकमगमशृभ्य उकञ् । ( ३-२- १५४ ) लाषुकः । पातुर तदाह यकारान्तादिति । क्नूयिता । क्ष्मायितेति । 'क्नूयी शब्दे उन्दने च' 'दमायी विधूनने' । 'अनुदात्तेतश्च हलादेः' इति युच् निषिध्यते । तृनेव भवति । सूददीप | सूद, दीप, दीक्ष, एषां द्वन्द्वात्पञ्चमी । युज्नेति । शेषपूरणमिदम् । 'अनुदात्तेतश्च -' इति प्राप्तो युच् प्रतिषिध्यते । नन्विह दीपग्रहणं व्यर्थम्, 'नमिकम्पिस्म्यजसकमहिंसदीपो रः' इति विशेषविहितेन रप्रत्ययेन युचो बाधसिद्धेः । न च वासरूपविधिना तद्बाधः शङ्कयः, ताच्छीलिकेषु वासरूपविधेः प्रतिषेधादित्यत श्राह । नमिकम्पीति रेणेति । रप्रत्ययेनेत्यर्थः । प्रायिकमिति । तथा चात्र वासरूपविधिना ताच्छीलिकेनापि रप्रत्ययेन युचो बाधासंभवाद् इह दीपेर्युचो निषेधोऽर्थवानिति भावः । तेनेनि । ताच्छीलकेऽपि क्वचिद्वासरूपविधेः सत्त्वादित्यर्थः । कम्रा, कमनेति । इच्छाशीलेत्यर्थः । 'अनुदात्तेतश्च -' इति युचः 'नमिकम्पि -' इति रेण पक्षे बाध इति भावः । कम्प्रा कम्पनेति । चलनशीलेत्यर्थः । अत्रापि ‘नमिकम्पि - ' । इति रेण युचः पक्षे बाध इति भावः । श्राक्षिपति यदीति । यदि 'सूददीपदीक्षश्च' इति सुदेर्युच्प्रतिषिध्यते तदा मधुसूदन इति कथमित्यन्वयः । समाधत्ते नन्द्यादिरिति । सूदिरिति शेषः । तथा च 'नन्दिग्रहि -' इति ल्युप्रत्यय इति भावः । लषपत । एभ्यो
I
सिद्धत्वात्किंतु नेति पृथक् पदमिति मत्वाह यकारान्तादिति । क्नूयिता । क्ष्मायितति । क्नूयी शब्दे उन्दे च क्ष्मायी विधूनने । सूददीप । सूद चरणे, दीपी दीप्तौ, दीक्ष मौण्ड्येज्यादौ । ताच्छीलिकेष्विति । परस्परमिति शेषः । प्रायिकमिति । न केवलं यथाश्रुतभाष्यमवलम्ब्य युज्रयोरेव समावेश इति मन्तव्यं किंतु प्रायिकत्व एव भाष्यस्य तात्पर्यम् । तेन गमेः 'लषपतपद -' इत्युकञ्च्विषये तृन्नपि । गन्ता । गामुकः । तथा 'वौ कषलस -' इति घिनुविषये युजपि । विकत्थी विकत्थन इत्यादि सिध्यतीति भावः । जल्प । जन जल्प व्यक्तायां वाचि, भिक्ष भिक्षायां लाभे श्रलाभे च, कुट्ट छेदने, लुण्ट स्तेये, चौरादिकाविमौ । श्रत्र व्याचख्युःजल्पेः ‘चलनशब्दार्थात्-' इति भिक्षेः 'अनुदात्तेतश्व -' इति युचि प्राप्ते कुट्टलुण्टयोः 'छन्दसि' इति इष्णुचि प्राप्ते वृङस्तु 'श्रागमहनजन -' इति किकिनोः प्राप्तयोरयं