________________
१२६ ।
सिद्धान्तकौमुदी। [पूर्वकृदन्तवर्तनः । वर्धनः । अनुदात्तेतः किम्-भविता । हलादेः किम्-एधिता । अकमैकात् किम-वसिता वस्त्रम् । ३१३० जुवङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः ३-२-१५०) जु इति सौत्रो धातुर्गती वेगे च। जवनः । चङ्क्रमणः। दन्द्रमणः । सरणः । पूर्वेण सिद्धे पदग्रहणं 'लषपतपद-' (सू ३१३४ ) इत्युका बाधा मा भूदिति । तेन ताच्छीलिकेषु परस्परं वासरूपविधिर्नास्तीति । तेनालंकृस्तृन्न । ३१३१ क्रुधमण्डार्थेभ्यश्च । (३-२-१५१ : क्रोधनः । रोषणः । मण्डनः । भूषणः । ३१३२ न यः। (३-२-१५२) सन्नन्तस्य, गुप इत्यनुदात्तेत्त्वस्य केवले प्रयोजनाभावेन सन्नन्तार्थत्वात् । जुचक्रम्यदन्द्रम्य । जु, चक्रम्य, दन्द्रम्य, स, गृधि, ज्वल, शुच, लष, पत, पद एषां दशानां द्वन्द्वात्पञ्चमी । एभ्यः तच्छीलादिषु युच् स्यादित्यर्थः । धातुपाठे जुधातोरदर्शनादाह ज इति सौत्र इति । चङ्क्रमण इति । यङन्तााच । 'यस्य हलः' इति यकारलोपः, अतो लोपः । एवं दन्द्रमणः, सरणः, गर्धनः, ज्वलनः, शोचनः, लषणः, पतनः, पदन इत्यप्युदाहार्यम् । पूर्वेणेति । 'अनुदात्तेतश्च हलादेः' इत्यनेनेत्यर्थः । तेनेति । उकञ् ह्ययं तच्छीलाधिकारस्थः। तत्र वासरूपविधिनैव उकना 'अनुदात्तेतश्च हलादेः' इति विहितस्य पदेयुचो बाधो न भविष्यतीति 'जुचङ्कम्य-' इति युज्विधिरनर्थकः स्यात् । अतस्ताच्छीलिकेषु परस्परं वासरूपविधिर्नास्ति इति विज्ञायते इत्यर्थः । 'निन्दहिंस-' इति सूत्रे तच्छीलादिषु वासरूपविधिना तृजादयो नेति ज्ञापितम् । इह तु ताच्छीलिकेषु परस्परं वासरूपविधिर्नास्तीति ज्ञाप्यते इति न पौनरुक्त्यम् । तृन्नेति । अलम्पूर्वात् कृत्रः अलंकृत्रित्यादिसूत्रविहितेन तच्छीलाधिकारस्थेन इष्णुचा 'तृन्' इति सामान्यविहितः तच्छीलाधिकारस्थो बाध्यत इत्यर्थः। ऋधमण्डार्थेभ्यश्च । 'ध कोपे' 'मडि भूषायाम्' एतदर्थेभ्यो धातुभ्यो युच् स्यात् , तम्छीलादिष्वित्यर्थः । न यः। य इति पञ्चम्यन्तं धातुविशेषणम् । तदन्तविधिः, दात्तत्त्वं गुपादिष्ववयवेष्वचरितार्थस्यानुबन्धस्य समुदायविशेषकत्वादिति दिक्। जुचङ्क्रम्य। क्रमिदमी यङन्ती, क्रमु पादविक्षेपे, दम हम्म मीमृ गतौ । पूर्वेणेति । 'अनु. दात्तेतश्च-' इत्यनेन । इह पदिग्रहणं सकर्मकार्थमिति वृत्तिकृतोक्तम् । भाष्ये तु अनभिधानादेव सकर्मकान भविष्यतीत्युक्तत्वात् । ज्ञापनार्थमेव तदित्याशयेनाह बाधा माभूदित्यादि। परस्परमिति । निन्दहिंसइत्यादिसूत्रे हि तच्छीलादिषु वासरूपविधानात् तृजादयो नेति ज्ञापितमिह तु ताच्छीलिकेषु परस्परं नेति ज्ञापितमिति विवेक इति भावः। क्रुध । क्रुध कोषे, रुष रोषे, मडि भूषायाम् , भूष अलंकारे । न यः। अय वय पय मय चय तय णय गतविति पठितस्य नयते यं निर्देशः, अनुदात्तत्त्वादेव युचः