SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६६ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ १२५ निन्दकः । हिंसक इत्यादि । खुला सिद्धे वुब्न्वचनं ज्ञापकं तच्छीलादिषु वासरूपन्यायेन तृजादयो नेति । ३१२७ देविकुशोश्चोपसर्गे । ( ३-२-१४७ ) आदेवकः । आक्रोशकः । उपसर्गे किम्-देवयिता । क्रोष्टा । ३१२८ चलनशब्दार्थादकर्मकाद्युच् । ( ३-२-१४८ ) चलनार्थाच्छन्दार्थाच्च युच् स्यात् । चलनः । चोपनः । कम्पनः । शब्दनः । रवणः । श्रकर्मकात् किम्-पठिता विद्याम् । ३१२६ अनुदात्तेतश्च हलादेः । ( ३-२- १४१) अकर्मकाद्युच्स्यात् । इत्यादीति । क्लेशकः, खादकः, विनाशकः, परिक्षेपकः, परिराटकः, परिवादकः, व्याभाषकः, असूयकः । ननु 'असूयो वुञ्' इति श्रसूयतेरेव वुञ्विधीयतम्, न तु निन्दादिभ्योऽपि तेषां रावुलैव सिद्धेः । लित्स्वरञित्स्वरयोस्तु नास्ति विशेषः, उभयथाप्यायुदात्तत्वात् । श्रसूयतेस्तु रावुलि 'लिति' इति प्रत्ययात्पूर्वं ऊकार उदात्तः । ञितु नित्यादिर्नित्यम् इति धातोरकार उदात्त इति विशेषः । तस्मादसूयतेरेव बुब्विधिरिति युक्तमित्यत आह खुला सिद्धे इति । तृजादयो नेतीति । तच्छीलादिषु वासरूपविधिसत्वे हि तद्विषये वुलः सरूपतया वुबा नित्यं बाधेऽपि तृजादयः स्युः । अत्र वासरूपविध्यप्रवृत्तौ तु 'तृन्' इति सूत्रेण तच्छीलादिषु तृनि प्राप्ते विधिरर्थवान् । श्रतस्तच्छीलादिषु वासरूपविधिर्न प्रवर्तत इति भावः । इदं च प्रायिकम् । तत्फलं तु उत्पूर्वान्मदेरलंकृनादिसूत्रेण इष्णुजुक्तः, वासरूपविधिना घिनुणपीति मूल एवानुपदमुक्तम् । देविक्रुशोः । देवीति चुरादिण्यन्तस्य 'दिवु क्रीडा - ' इत्यस्य च प्रहणम् । उपसर्गे उपपदे देवयतेः क्रुशेश्च तच्छीलादिषु वुञ् स्यादित्यर्थः । चलन | शब्दन इति । ' शब्द शब्दने' चुरादिः । शब्दनं शब्दोच्चारणम् । धात्वर्थोपसंग्रहादकर्मकः । अनुदात्ततश्च । आदिग्रहणाभावे हलन्तादित्यर्थः स्यात् । ततश्च जुगुप्सन इति न स्यात् । सन्नन्तस्य हलन्तत्वाभावात् । श्रस्ति चानुदात्तत्वं द्युदात्तत्वात् । श्रसूयतेस्तु राखुलि 'लिति' इति प्रत्ययात्पूर्वमुदात्तं वुनि तु 'नित्यादिर्नित्यम्' इत्यादिरुदात्त इति विशेषस्तदाह वुलेति । तृजादयो नेति । नेदं रावुल्विषयकमेव ज्ञापकं किंतु सामान्यतः प्रत्ययमात्रविषयकमित्यर्थः । देविकुशोः । दीव्यतेर्हेतुमण्यन्तस्य दिवु कूजने इति चुरादिण्यन्तस्य च ग्रहणम् । चलनशब्दार्थाद् । चल कम्पने, चुप मन्दायां गतौ, कपि चलने, शब्द शब्दने चुरादि, रु शब्दे | चलन इत्यादि 'युवो:-' इत्यनादेशः । श्रनुदात्तेतश्च हलादेः । ननु सर्वोऽप्यनुदात्तेद् हलन्त एवेति तदन्तविधिं बाधित्वा सामर्थ्याद्धलादिरेव ग्रहीष्यते तत्कि - मादिग्रहणेनेति चेत् । अत्राहुः - श्रादिग्रहणाभावे हलन्तादित्यर्थः स्यात्तथाहि सत्येधितेत्यादावतिप्रसङ्गः स्यात् जुगुप्सत इत्यादि च न सिध्येत् । अस्ति चेहानु >
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy