SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६६ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ १२३ 1 इति काशिका | अनुबन्ध इति भाष्यम् । तेन शमिनितरा, शमिनीतरा इत्यत्र 'उगितश्च' ( सू १८७ ) इति हस्वविकल्पः । न चैवं शमी शमिनावित्यादौ नुम्प्रसङ्गः, झल्ग्रहण मपकृष्य फलन्तानामेव तद्विधानात् । 'नोदात्तोपदेशस्य' ( सू २७६३ ) इति वृद्धिनिषेधः । शमी । तमी । दमी । श्रमी । भ्रमी । तमी । कमी । प्रमादी । उत्पूर्वान्मदेः श्रलंकृञादिसूत्रेणेष्णुजुकः, वासरूपविधिना घिनुणपि | उन्मादी । ' ताच्छीलिकेषु वासरूपविधिर्नास्ति' इति तु प्रायिकम् । ३१२२ संपृचानुरुधाङयमाङ्यस परिसृसंसृजपरिदेविसज्वरपरिक्षिप परिरट परिवदपरिदह परिमुहदुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरजभजातिचरापचरामुषाम्याहनश्च । ( ३-२-१४२) विनुगस्यात् । संपर्क । शमिनितरा शमिनीतरेति । शमिन्शब्दात् स्त्रियां नान्तलक्षणङीबन्तात् तरबन्ताट्टाप् । ह्रस्वविकल्प इति । भाष्यमते उगित्त्वाद्धस्वः । काशिकामते तु उगित्त्वाभावान्न ह्रस्वः । न च हस्वाभावे ' तसिलादिषु -' इति पुंवत्त्वं शङ्कयम्, 'संज्ञापूर रायोश्च' इति निषेधात् । ननु भाष्यरीत्या उगित्त्वाभ्युपगमे शमी शमिनौ इत्यादौ ' उगिदचाम् -' इति नुम् स्यादित्याशङ्कय निराकरोति न चैवमिति । झल्ग्रहणमपकृष्येति । 'नपुंसकस्य झलचः' इति उत्तरसूत्रादिति भावः । एतच्च प्रकृतसूत्रे 'युवोरनाकौ' इति सूत्रे च भाष्ये स्पष्टम् । शमादिभ्यो घिनुणि उपधावृद्धिमाशङ्कयाह नोदात्तेति । प्रमादीति । मान्तत्वाभावान्नवृद्धिनिषेधः । ननु उत्पूर्वान्मदेरुन्मादीति कथं घिनुण् श्रलंकृणादिसूत्रे उत्पूर्वान्मदेर्विशिष्य इष्णुचो विधानादित्यत श्राह उत्पूर्वादित्यादिना । ननु कथमत्र तच्छीलिके घिनुण वासरूपविधिप्रवृत्तिः ताच्छीलिकेषु वासरूपविधिर्नास्तीति निषेधादित्यत आह ताच्छीलिकेष्विति । इयं परिभाषा 'निन्दहिंस-' इत्यादिवच्यमाणसूत्रे ज्ञापितेति भाष्ये स्पष्टम् । प्रायिकमिति । एतच्च सूददीपदीक्षश्च' इति दीपग्रहणादिति 'जुचङ्क्रम्य दन्द्रम्य - इति सूत्रे भाष्ये स्पष्टम् । संपृचानुरुधाङ्यमाङ्यस । संपृच, अनुरुध, आड्यम, श्रायस, परिसृ, संसृज, परिदेवि, संज्वर, परिक्षिप, परिरट, परिवद, परिदह, परिमुह, दुष, द्विष, दुह, दुह, युज, श्राक्रीड, विविच, त्यज, रज, भज, अतिचर, अपचर, श्रमुष, अभ्याहन्, एषां सप्तविंशतेः द्वन्द्वात्पञ्चमी । संपर्कीति | 'चजो:-' इति कुत्वम् । अनुरोधीत्यादौ लघूपधगुणः । श्रदुपधेषु शमिनीत रेत्यत्रेति । अत्र नव्याः -- विद्वत्तरेतिवत्तसिलादिष्विति पुंवद्भावेन शमि तरेति भाव्यम् । न च उगित्वाभ्युपगमस्य फलाभावाद्धस्वविकल्प एव भवतीति वाच्यम्, पाक्षिकहस्वेन उगित्करणस्य चरितार्थत्वाद्धस्वाभावपत्रे तु पुंवद्भावस्य दुर्वा - रत्वादित्याहुः। संपृचा। संपर्कीति । पृची संपर्के 'चजोः-' इति कुत्वं गुणः । , , 6
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy