SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ १२२ ] सिद्धान्तकौमुदी । [ पूर्वकृदन्त 1 ३११८ भुवश्च । ( ३-२- १३८ ) छन्दसीत्येव । भविष्णुः । कथं तर्हि 'जगप्रभोरप्रभविष्णु वैष्णवम्' इति — निरङ्कुशाः कवयः । चकारोऽनुक्तसमुच्चयार्थः, भ्राजिष्णुरिति वृत्तिः । एवं क्षयिष्णुः । नैतद्भाष्ये दृष्टम् । ३११६ लाजिस्थश्च ग्स्नुः । ( ३-२-१३६ ) छन्दसीति निवृत्तम् । गिदयं न तु कित्, तेन स्थ ईश्वं न । ग्लास्नुः, गिवान गुणः । जिष्णुः । स्थास्नुः । चाद्भुवः, 'श्रधुकः किति' ( सू २३८१ ) इत्यत्र गकारप्रश्लेषा भेट्, भूष्णुः । 'दंशेश्छन्दस्युपसंख्यानम्' ( वा २१२६ ) | 'दच्णवः पशवः' । ३१२० सिगृधिधृषिक्षिपेः क्नुः । ( ३-२-१४० ) - त्रस्नुः। गृध्नुः। धृष्णुः । क्षिप्नुः । ३१२१ शमित्यष्टाभ्यो घिनुण् । ( ३-२-१४१ ) उकार उच्चारणार्थ भुवश्च । छन्दसीत्येवेति । भूधातोरिष्णुच् स्यात् तच्छीलादिषु छन्दसीत्यर्थः । अण्यन्तार्थ आरम्भः । ग्लाजिस्थश्च । निवृत्तमिति । व्याख्यानादिति भावः । चाद् भुव इत्यनुकृष्यते । ग्ला, जि, स्था एषां द्वन्द्वात्पञ्चमी । ग्ला, जि, स्था, भू इत्येभ्यः क्स्तुः स्यात् तच्छीलादिष्वित्यर्थः । ककार इत् । स्थास्नु इत्यत्र कित्त्वलक्षणं 'घुमास्था-' इतीत्त्वमाशङ्कयाह गिदयमिति । सूत्रे चर्चेन ककार निर्देश इति भावः । गित्वान्न गुण इति । 'क्कङिति च' इत्यत्र गस्य चत्वेंन ककारान्तरप्रश्लेषादिति भावः । ननु भूष्णुरित्यत्र इट् स्यात्, 'श्रूयुकः किति' इति कित एव इरिनषेधात् अस्य च गित्त्वादित्यत श्राह श्रूयुक इति । प्रश्लेषादिति । चर्खेनेति भाषः । त्रसिगृधि । तच्छीलादिषु कर्तृष्विति शेषः । त्रस्नुरिति । नेड्वशीति नेट् । गृध्नुः धृष्णुरित्यत्र कित्त्वान्न गुणः । शमित्यष्टाभ्यः । इतिशब्द " दिपर्याय: । शमादयो दिवादौ स्थिताः । तेभ्यः अष्टाभ्यो घिनुण् स्यात् तच्छीलादिष्वित्यर्थः । घित्त्वमुत्तरसूत्रार्थम् । 'कर्मकेभ्य एव घिनुण्' इति भाष्यम् । यिष्णव इति । 'अयामन्ता -' इति रय् । नैतदिति । चकारस्यानुक्तसमुच्चयार्थत्वमित्यर्थः । इत्वं नेति । ' घुमास्था - ' इत्यादिना । गित्वादिति । ' क्ङिति च ' इत्यत्र गकारं प्रश्लिष्य गिति किति डितीति व्याख्यानादिति भावः । गकारप्रश्लेषादिति । नन्वेवं गकारे चर्त्वस्यासिद्धत्वाद् 'हशि च' इत्युत्वं स्यादिति चेत् । सत्यम् । सौत्रोऽयं निर्देशः । तथा च वार्तिकम् । 'ग्नोर्गित्त्वान्न स्थ ईकारः क्ङितो - रीत्वशासनात् । गुणाभावस्त्रिषु स्मार्यः श्रयुकोऽनिट्त्वं गकोरितो' । दणव इति । दंश दशने 'वश्चं - ' इत्यादिना षत्वे ' षढोः कः सि' इति कत्वम्, 'श्रादेशप्रत्यययोः' इति षत्वम् । 'निदितां -' इति नलोपो न, ग्स्नोर्गित्त्वेन प्राप्यभावात् । त्रस्नुरिति । 'नेवशि -' इति नेट् । शमित्यष्टाम्यो । इतिशब्द आद्यर्थः ।
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy