________________
प्रकरणम् ६६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१२१ वक्ष्यमाणाः प्रत्ययास्तच्छीलतद्धमतरसाधुकारिषु कर्तृषु बोध्याः। ३११५ तृन् (३-२-१३५) कर्ता कटम् । ३११६ अलंकृनिराकृञ्प्रजनोत्पचो त्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच् । (३-२-१३६) अलंकरिष्णुरित्यादि । ३११७ णेश्छन्दसि । (३-२-१३७ ) 'वीरुधः पारयिष्णवः' । लिकाः प्रत्ययाः प्रायेण सोपसर्गेभ्यो नेति 'अान्यसुभग-' इति सूत्रे भाष्ये स्पष्टम् । तच्छीलः तत्स्वभावः, फलमनपेक्ष्य स्वमावादेव प्रवर्तमान इति यावत् । स धर्मो यस्य स तद्धर्मा। खधर्मोऽयमिति प्रवर्तमानः। तस्य धात्वर्थस्य साधुका तत्साधु. कारी । तृन् । धातोस्तृन्प्रत्ययः स्यात् तच्छीलादिषु कर्तृषु । तच्छोले उदाहरति कर्ता कटमिति । कटकरणक्रियाशील इत्यर्थः । 'न लोक-' इति षष्ठीनिषेधः, 'न लोक-' इति सूत्रे तृनित्यनेन ‘लटः शतृ- इत्यारभ्य एतत्सूत्रस्थनकारेण प्रत्याहाराश्रयणात् । तद्धर्मणि यथा-मुण्डयितारः श्राविष्टायना भवन्ति ऊढा वधूम् । श्राविष्ठायना नाम देशविशेषीया वधूमुण्डनं स्वधर्म इत्यनुष्ठातार इत्यर्थः । तत्साधुकारिणि कर्ता कटमित्येवोदाहरणम् । कटं साधु करोतीत्यर्थः । अलंकृञ् । अलंकृञ् , निराकृञ् , जन, उत्पच,उत्पत,उन्मद, रुचि,अपत्रप, वृतु, वृधु,सह,चर एषां द्वादशानां द्वन्द्वात्पञ्चमी । एभ्यः तच्छीलादिषु कर्तृषु इष्णुच् स्यात् । इत्यादीति । निराकरिष्णुः। प्रजनिष्णुः। उत्पचिष्णुः । उत्पतिष्णुः । उन्मदिष्णुः । रोचिष्णुः। अपत्रपिष्णुः। वर्तिष्णुः। वर्धिष्णुः। सहिष्णुः। चरिष्णुः। णेश्छन्दसि । ण्यन्ताद्धातोरिष्णुच् स्यात् छन्दसीत्यर्थः । पारयिष्णव इति । पृधातोपर्यन्तादिष्णुचि णेर्लोपं बाधित्वा 'अयामन्ताल्वाय्य-' इत्यम् । इदं सूर्य वैदिकप्रक्रियायामेव व्याख्यातुमुचितम् । विद्युतोर्जि-' इति वक्ष्यमाणमिति शेषः । कर्ता कटानिति । 'न लोकाव्यय-' इति षष्ठीनिषेधः । अलंकृञ् । कृमिति डुकृञ् करण इत्यस्यैव प्रहणं न तु कृञ् हिंसायाः मित्यस्य, 'प्रसिद्धाप्रसिद्वयोः प्रसिद्धस्यैव ग्रहणम्' इति न्यायात् । निराङ्पूर्वोsपि कृत्र स एव । प्रपूर्वो जनी प्रादुर्भाव । इह डुपचष् पाके, पत्ल गतौ, मदी हर्षे, त्रयोऽपि उत्पूर्वाः पत्यन्ते । तत्र उदः पचपतमद इत्येव वक्तव्ये प्रत्येकमुत्पूर्वस्य पाठ उपसर्गान्तरनिवृत्त्यर्थस्तेन समुत्पतिष्णुरित्यादि न भवतीत्याहुः। रुच दीप्तौ अपपूर्वः, पूष् लजायाम् , वृतु वर्तने, वृधु वृद्धौ, षह मर्षणे,, चर गतावित्यादीति । श्रादिशब्दग्राह्यास्तु निराकरिष्णुः, प्रजनिष्णुः, उत्पचिष्णुः,उत्पतिष्णुः उन्मदिष्णुः इति । 'उत्पतिष्णुसहिष्णू च चेरतुः खरदूषणो' इति भष्टिः। कालिदासोऽप्याह 'एलानामुत्पतिष्णवः' इति । केचित्तु पंत इति स्थाने दान्तं सूत्रे पठित्वा पद गतावित्यस्मात्प्रत्यय. माहुः । उन्मदिष्णुः, रोचिष्णुः, अपत्रपिष्णु, वर्तिष्णुः, सहिष्णुः, चरिष्णुः पार
१-कटमिति मूलपाठस्तु बालमनोरमानुरोधेन ।