________________
१२० ]
सिद्धान्तकौमुदी ।
[ पूर्वकृदन्त
शतृ स्यादकृच्छ्रणि कर्तरि । श्रधीयन् । धारयन् । अकृच्छ्रिणि किमू-कृच्छ्रेण अधीते, धारयति । ३१११ द्विषोऽमित्र । ( ३-२-१३१ ) द्विषन्छत्रुः । ३११२ सुत्रो यज्ञसंयोगे । ( ३-२-१३२ ) सर्वे सुन्वन्तः । सर्वे यजमानाः सत्रिणः । ३११३ अर्हः प्रशंसायाम् । ( ३-२-१३३ ) अर्हन् । ३११४ श्रास्तच्छीलतद्धर्मतत्साधुकारिषु । ( ३-२-१३४ ) क्किपमभिव्याप्य
शतृ अकृच्छ्रिणीति छेदः । श्रकृच्छ्रम् श्रदुःखम्, तदास्यास्तीति अकृच्छ्री । इड्, धारि अमयोः द्वन्द्वात् पञ्चम्यर्थे षष्ठी । अधीयन्निति । सुखमध्ये तेत्यर्थः । धारयन्निति । सुखेन धारयितत्यर्थः । द्विषोऽमित्रे । द्विषः शतृप्रत्ययः स्याद् श्रमित्रे कर्तरीत्यर्थः । सुत्रो यज्ञ । यज्ञसंयुक्तेऽभिषवे वर्तमानात् सुनोतेः शतृप्रत्यय इत्यर्थः । संयोगग्रहणं यज्ञस्वामिपरिग्रहार्थम् । तेन याजकेषु न भवति । तत्र सुन्वन्नित्येकवचनान्तं दर्शपूर्णमासज्योतिष्टोमादिविषयम्, एककर्तृकत्वात् । बहुवचनान्तं तु सत्रविषयमेव, तत्र ऋत्विजामपि यजमानत्वादिति मत्वाह सर्वे सुन्वन्त इति । श्रर्हः प्रशंसायाम् । श्रई इति पञ्चमी । शतृप्रत्यय इति शेषः । श्रर्हन्निति । पूजां प्राप्तुं योग्य इत्यर्थः । अत्र प्रशस्तस्यैव पूजायोग्यत्वात् प्रशंसा गम्यते । श्रा केस्तच्छीलतद्धर्मतत्साधुकारिषु । श्राङभिविधौ तदाह क्विपमभिव्याप्येति । 'भ्राजभासधुर्विद्युतोर्जि पूजुप्रावस्तुवः क्विप्' इति सूत्रमभिव्याप्येति यावत् । तत्र ताच्छी
1
"
·
पदिभ्योऽपि विधानमिति ध्वनयन्नुदाहरति निघ्नान इति । 'गमहन -' इत्युपधालोपः । इङ्घार्योः । इङ श्रात्मनेपदित्वात् शता न सिध्यति, चारयतेरपि कर्तृगामिनि क्रियाफले न सिध्यति लसार्वधातुकानुदात्तत्वं च प्राप्नोतीत्ययमारम्भः । सुत्रो यज्ञसंयोगे । सुनोतेः शतृप्रत्ययः स्याद् यज्ञेन संयुज्यमाने वृत्तिवेत् । नन्विह सत्रो यज्ञे इत्येवास्तु यज्ञविषयकश्चेत्सुनोत्यर्थ इति व्याख्यायां सुरां सुनोतीत्यादव्यवर्तयितुं शक्यत्वान् । अत्राहुः-संयोगप्रहणं प्रघानकर्तृसप्रत्ययार्थं तेन यजमानादन्यत्र न भवतीति । एवं चाप्रधाने कर्तरि 'लटः शतृशानचौ-' इत्यनेनापि न भवति, संयोगग्रहणसामर्थ्यादिति हरदत्तः । यः सुन्वन्तमवतीत्यादीनामेकवचनान्तानां यजमानपरत्वसंभवSपि बहुवचनान्ताना तु न सभवति । एकस्मिन्यागे एकस्यैव यजमानत्वादित्याशङ्कय यागविशेष तु संभवतीति दर्शयितुमुदाहरति सर्वे सुन्वन्त इत्यादि । सत्रयागे हि बहवो यजमानास्त एव ऋत्विजां कर्म सोमाभिषवणं कुर्वन्तीति सुन्वन्त इत्यादिबहुवचनान्तस्यापि यजमानपरत्वं संभवतीति भावः । श्रर्हः । प्रशंसायां किम्, अर्हति चौरो वधम् । आ केः । शीलादीनां त्रयाणां विशेषणं समर्थयितुं निर्दिष्टौस्त्रिभि स्तच्छब्दैः प्रकृतिभूतधात्वर्थो निर्दिश्यते । क्विपमभिव्याप्येति । ' भ्राजभासधु